पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (समन्वय १-१-४) ३३५ चन्द्रस्य शाखाग्रमिव तटस्थलक्षणम्। प्रकृष्टप्रकाशादियत् सत्यत्वादिकं स्वल्पलक्षगमिति '; बेदकर्तृत्वेनापि दृढीकृतं प्रथमवर्णके । द्वितीयवर्णक्रे तु जग:कर्तुग्नुमानत एव सिद्धेः, तन्निर्विशेषत्वस्य प्रपञ्चनिथ्यात्वानुमानादेव सिद्धेश्ह्मण औपनिषदत्वं न सम्भ पराहतया निर्विशेषब्रह्मणः शाखैकप्रमाणकत्वमित्युक्तम् । समन्वयसूत्रे तु अस्म दुक्तरीत्या विध्येकवाक्यत्वनिरासकतया एकं वर्णकम्; सिद्धयुत्पतिसमर्थनपरतया अपरं वर्णकमिति । वास्तववेद्यत्वाभावविरहाभावादिति । पारमार्थिकवेद्यत्वस्यासत्वेन वेद्यत्वा भावरूपसाध्यस्यैव सत्वदित्यर्थः । साध्याव्यावृत्तो हेि स्यादिति । साध्यवानेव स्यादित्यर्थः । विविध प्रागेव ग्रपश्चितमिति । प्रमाणन्तरेण भेदवासनाया दोषत्वनिश्चयात् अन्योन्याश्रय , बाध्यबाधकयोस्तुल्यदोषत्वम्, मूलेोच्छेदित् चेति त्रिविधमित्यर्थः । संविदवच्छिन्नान्तःकरणस्येति । संविद्विशिष्टस्येत्यर्थः

  • विशिष्टैक्येऽभ्युपगम्यमान ? ’ इत्युत्तरप्रन्थानुसारादिति द्रष्टव्यम् । यदा सुप्तः

स्वप्नं न कथञ्चन पश्यतीति । 'यदा थुप्तः स्वप्नं न कथञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति, तदैनं वाक् सर्वैनमभिग्सहाप्येति, चक्षुस्सर्वे रूपैः सहाप्ये,ि श्रोत्रं सर्वैः शब्दैः सहाप्येति, चक्षुः सर्वेक्ष्यनैि:सहाप्येति । स यद प्रबुध्यते यथाग्नेर्चिष्फुलिङ्गा विप्रतिष्ठरन् एवमेवैतमादात्मनः प्राणा यथाथतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः' इति कोषीतकीश्रुतिः । वितगोत्तीर्ण स्येति । ज्ञ:तृज्ञेयतदवच्छिन्नज्ञानातिरिक्तस्येत्यर्थः । प्रयोजनं द्विविधनिति । शास्त्रस्य प्रयोजनं द्विविधमियन्वयः । ननु शास्त्रानारम्भो जीवैक्यपक्षे आपाद्यते , उत तन्नानात्वपक्षे । नाद्यः-- तत्पक्षे इतः पूर्व कस्यापि ज्ञानानुत्पतेः शाखमारब्धव्यमेव । न च वसिष्ठादीनाम सम्भावितमितःपरं कथभयस्य स्यादिति शङ्कयम्- सिद्धान्तेऽप्थतीतेष्वध्यनन्तेषु जन्मस्वसम्भावितं मोक्षसाधनमितःपरं कथं स्यादिति शङ्कायास्तत्रापि (३) सम्भवात् । न द्वितीय --अन्यस्य ज्ञानान्मुक्तत्वेऽपि इतरस्य भुत्वयथै शास्त्रारम्भोपपतेरित्यस्वरसा