पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाबप्रकाशिका (ईक्षयधिकरणम् १-१-५) ३३५७ पुनस्तदेवानृद्य जिज्ञास्यन्वविध्यसम्भवादिति भावः ! अनुवादः क्रियत इति शङ्क परिहारार्थमिति । अनुवादः क्थिः इति या शङ्का तत्परिहारार्थमित्यर्थः । शास्त्रेणानुवादासम्भव इति । यतो वा इमामीति शास्त्रेणेत्यर्थः । इति समन्वयधिकरणम् । चतु:सूत्री पूर्णा । - - *** - - 32; त्यधिकरणम् (५) १-१.५) प्रथमे सूत्रे उद्देशः कृत इति । अत्रयं विवेक --प्रथमद्वितीयपक्षयो तृतीयचतुर्थाधिकरणे लक्षणलक्ष्यस्वभावनिबन्धनंपरीक्ष्यत्वशङ्कानिवर्तकत्वेनैका पेटिका । तत्रापि यतो वा इमानीत्यादिवाक्ये जगत्कारणानुवादेन ब्रह्मत्वं विधीयत इति पक्षानुसारेण प्रथमः पक्षः । 'यतो वा इनानीति वाक्ये कारणत्वानुवादेन लक्षणत्वं विधेयमिति पक्षानुसारेण द्वितीय पक्षः । न्यायशास्रस्य उद्देश लक्षणपरीक्षारूपत्वस्य आवश्यकत्वेऽपि अस्य शास्रस्य तदनावश्यकत्वात् प्रथम द्वितीयाधिकरणयोनोंदेशलक्षणार्थप्रवृत्तत्वम् ; अपि तु व्युत्पत्यभावप्रतिपतिदैौ:स्थ्य- भानान्तरसिद्धत्वाफलत्वानबन्धनानाम्भशङ्कानिवर्तकत्वेन चतुर्णामप्यधिकरणानामेक पेटिकाचमिति तृतीयः पक्षः । क्षेत्रज्ञमात्रमितेि ! जीवसामान्यमित्यर्थः । सद्विद्याद्वारेणेतेि । न्यायतैौल्यात् तेषां पृक्षसमत्वमिति भावः । उपनिषदन्तरगतगतेिसामान्यादेब्रह्मविषयत्वं सिद्धबकृत्य तस्य हेतुतयोपन्यासाच सद्विद्यांवाक्यस्यैव विषयत्वमेिल्याह--तदनुग्राहकत्वेन चेति । सिद्धान्तानुग्राह कत्वेनेत्यर्थः । न चैवं वेदान्तान्तराणामपि पक्षतुल्यत्वमिति पूर्वग्रन्थविरोध इति वाच्यम्; तस्योत्तरत्र 'समाधास्यमानत्वादितेि द्रष्टव्यम् । उपादानत्वोचितेति । विकारित्वादिति भावः । नन्वचेतनत्वशङ्कायाः प्रतिक्षेप्यत्वेऽपि ब्रह्मपदादियुक्त 1: "प्रथमपक्षे द्वितीयपक्षे च तृतीयचतुर्थाधिकरणे प्रथमद्वितीयाधिकरणाभ्यां सह नैच्छ 43