पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३८ श्रीरङ्गरामानुजमुनिविरचिना वाक्यस्य विषयत्वमस्त्वित्यत आह-सत्रह्मादीनि । सत्त्वस्य ब्रह्मत्वापेक्षया साधारण तया तस्यैव विचारो युक्त इति भावः । विशेषे तु प्रतिपन्ने हीति । एवाशेन्द्रादिपदावलम्बनेन पूर्वपक्षे निरस्ते सदादिसामान्यशब्दावलम्यनपूर्वपक्षी दण्डापूपन्यायपरहः स्यात् । अतः एतस्यैव पूर्ववृत्तत्वभुचितमिति भावः । अतः संशयमाहेति । सच्छब्दयुक्तवाक्य एवेति शेषः । केचित्तु सन्दिग्धे हि न्यायप्रवृति: ! अतो न्याकावताराथै संशयसद्भावमाहेत्येकग्रन्श्रय योज न्ति । विप्रतिपत्तिरपीति । परं.क्तमियनेन स्वोक्तस्याप्याश्रे॥ द्वरुद्धार्थप्रतिपादकवचन द्वयरूपविप्रतिपत्तिरुपन्यस्ता भवति । तत्र परोक्तमित्यनेन त्रिगुणात्मकत्वस्य सूचि तत्वात् कार्थेसालक्षण्यरू हेतुरनुगृहीो भवति । स्वोक्तमित्यनेन चेतनत्वस्य सूचनात् भुस्येक्षितृत्वस्यानुग्रहो भवतीति भावः । पादशेषसाधारणेो विचार इति । नन्बयं विचारोऽध्यायमात्रसाधारण एवेति कथं पादशेफ्भाक्षसाधार7त्वमुच्य इति चेन्न ; सर्वाण्यपि वेदान्तवाक्यानेि प्रधानादिप्रतिपादनपराणि उत तद्विलक्षणपराणीति तदथीत् , प्रथमपादे चिदचिद्विलक्षणास्तित्वस्य सिद्धत्वेन त्रि 1द्या अन्ययोग यक्छेदार्थत्वेन कतिपयवाक्यमात्रविषयत्वदिति द्रष्टव्यम्। ब्रह्मपरत्पविरोमीति ।(?) (३) साधको न वेत्यर्थः । ततश्चात्मशब्दस्य तेजःप्रभृतेिशध्रह्मपरत्वविरोधि:वस्य पूर्वपक्षिणाप्यनभ्युपेत्वात् कथमियनुक्तिरिति शङ्क । परास्त । एवद्युतरस्रापि द्रष्टव्यम् । अन्यतरशिर इति । अनयोर्मध्ये किं वा शिरो युक्तिमत्तया निर्धारणार्हत्यिाकांक्षां दर्शयतीत्यर्थ । सुखदुःखमोहान्यहेतुत्वदर्शनादिति । यथा एका ली रूपयौवन्कुलशीलसम्पन्ना स्वामिनं थुखाकरोति, तत् कस्य हेतोः:: स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् ! सैव स्री सपलीं दुःखाकरोति, तत् कश्य हेतोः ? तां प्रति तस्या खरूपसमुद्भवात्। एवं तामन्द्रित्पुरुषान्तरं सैव मोहयति। त् कस्य हेतोः ! तत् प्रति सस्या मोहरूसमुद्भवात् । अतः स पदार्थाः सुखदुःख मोहान्वयहेतुत्वात् सुखदुःखमोहल्पाः । अतस्तादृशसत्वरजस्तमोमूल का इत्यर्थः । तत एव च कार्यकारणयोरनन्यत्वमिति भाष्ये तत इत्यस्य(तीदम्?) अभिधीयत इत्युक्तभिधानपरतया व्याख्याय सदेवेति श्रुतिपरतय व्याचष्ट – यद्वा इदमग्र म