पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६९ लेख दोषात् पतिमः । स तावदित्थम्-इदं जगदेकोषादानविज्ञानविज्ञातं कार्यस्मात् भाष्ये यस्मिन् शब्द एव प्रमाण न भवतीति । अत्र केचित् एवकारे भिन्नक्रमः ! श: प्रमाणमेव न भवतीत्यर्थः । सांख्यमते श्रुते नुमानसिद्धानुवादितया श्रुतेरप्रमाणत्वात् अशब्दस्वस्त्येव । स्पतिना-'प्रधानं जगदुपादानकारणमनुमानसिद्धमनुवन्न्यु पनिषद् इति सांख्या: । इति । अत एव टीकायां प्रमाणान्तरप्राप्त शास्त्रं न प्रतिपादयतीति चेदित्यदिचेोद्य परिहारयोरपि नावकाशः । श्रुतेः प्रमाणत्वाभ्युपगमेऽपि अशब्दशब्दात् शब्दभिन्न प्रमाणवचनात् अझे आद्यचेि आनुमानिकमित्यर्थल भात् । टीकायामप्यानुमानिकादि शब्दवदिति परमतदूषणे वक्ष्यमाणत्वाच । शब्द एव प्रमाणं न भवतीतेि अवधारण गर्भतय व्याख्यानमतिष्टिम् । तथा सति घटपटवति भूतले अधटमिति प्रयोग तेरिति वदन्ति । अन्ये तु—एकमान्नकर्तृकत्मरहिते रथगोपुराद्रौ एककर्तृकत्वं नेति प्रयोगदर्शनात् शब्दमात्रप्रमाणकत्वाभावमादाय अशब्दत्वोक्त्युपपति: । न च तन्मते शब्दस्यानुमानसिद्धानुवादितया शब्दप्रामाण्यानभ्युपगमात् टोकाकृदाक्षेपपरिहारथो:- स्थानविजूम्भतत्वमिति युक्तं वक्तुम् । अनुवादितयैव पूर्वपक्षः प्रवर्तयेतय इति निर्वन्धाभावात्, श्रुत्यनुमाने परस्परसहकारिणी सती प्रतिपादयत इति पूर्वपक्ष सम्भवदिति वदन्ति । तस्यानुपपन्नताश्च ज्ञापयितुमिति । पूर्वपक्ष्यभिमतं शब्दा तिरिक्तममाणकत्वलक्षणशब्दत्वं प्रदर्शयता सूत्रकृता पूर्वपक्षिणो व्याहतवादित्वमा विष्कृतं भवतीति भावः । वाक्यनिरूपणपरत्वादिति । समन्वयलक्षणस्य सर्वस्यापि वाक्यप्रतिपाद्यत्वविचारस्रपत्वादिति भाव । व्यधिकरणासिद्धीतेि । हेतोः स्वरूपा सिद्धिव्युदास इत्यर्थः । कूतिपाविति । धातुनिर्देशे धात्वनुकरण इत्यर्थः । शित्वाच्छप् । शित्वसामथ्र्याचाकर्तृवाचिन्यपि सार्धधातुके शाबित्याहुः । ईक्षितेरिति हेि वक्तव्यमिति । नन्वीक्षतेर्गुरुत्वत्, गुरोश्च हलः' इत्यङि ईक्षेत्येव भाव्यम्, न तु, ‘स्त्रियां क्तिन्' इति क्तिन् । स्त्र्यधिकारे च * वासरूप.' विध्यभावात् । सति च 1, मुश्तिकोशे उपलभ्यत एव ।