पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ इति । अय्यप्रायन्यायेनेत्यर्थ प्रविश्य नामरूपे व्याकरवाणि ', ' मास्तिस्रः देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् । , 'यथा तु खलु सोम्येनास्तिस्रः देवता' इति तेजेबन्नेषु गैौणदेवताशब्दानां बहूनां सत्वात् प्रयत्वमुपपद्यत इति द्रष्टव्यम् । अतो यदन्न तृलिकायां यद्यप्यवेतनविषय एक इव देवताशव्दः श्रूयते, तथापि बहुवचनान्त तया कृतैकशेषत्वाच्छब्दवमस्तीति प्रयत्नमिन् िभाव दृश्युक्तम्, तस्य न सभ्यक्त्वमिति ध्येयम् । ५. अत्मशब्दोऽपीति । 'ऐतदात्म्यमिदं सर्वम् स आत्मा ? इत्या त्मशब्दद्वयाभिप्रायेण मृदात्मको घट , घटस्य मृदात्मेति द्वयमपि निर्दिष्टमिति द्रष्टव्यम् । स्वरूपैक्यं सम्भवतीत्यर्थ इति । सिद्धान्ते तु शरीरमतिसम्बन्धित्व लक्षणमात्मत्वं सम्भवतीति भावः । अपिशब्दं समुच्चयपरतया व्याख्याय विरोधप तथापि व्याचष्ट-अतदात्मकत्वेन त्वदभिमतानामपीति वेति । भाप्ये मुख्य एवेक्षणध्यपदेश इति । ननु तेजोचत्रेषु सृष्टषु 'अनेन जीवेनात्मनानु प्रविश्य नामरूपे व्याकरवाणि ' इति सङ्कल्पपूर्वकपरमात्मानुपवेशः कथं तत्पूर्व कालीनतेजोजलकतृकेक्षणमुख्यत्वं साधयेदिति चेन्न- नोदाहरणमादर्तव्यमिति न्यायेन परमात्मन आत्मत्वमतिपादकानां प्रमाणानां सत्त्रात् शरीरवाचिशब्दानां शरीरिपर्यन्त्बस्य च आकृत्यधिकरणसिद्धत्वादित्यर्थः । इति सूत्वाभिप्राय इतीति । सूत्रेऽनेकाभिप्रायत्वस्यालङ्कारादिति भावः । मुख्यामुख्यार्थानु ग्राहकेष्विति । यद्यपि मुख्यार्थानुग्राहकायपाठस्य सन्निधित्पस्य मुख्यानु ग्राहकात्मश्रुत्यपेक्षया दुर्बलत्वान्न प्रायपाठानुसारेण ईक्षणस्य गौणत्वमित्येव भाष्ये प्रतीयते; न तु मुख्यार्थानुग्राहकत्वेनैवानुरोद्धव्यत्वम् – तथापि तस्यापि न्यायस्य व्युत्पादनं सम्भवतीत्यत्र तात्पर्यम् । अवान्तरसाध्यविषयत्वशङ्कामिति । गौणत्वा भावरुपावान्तरसाध्यविषयत्वशङ्कामित्यर्थः । कारणत्वौपयिकेक्षणधर्मनिरूपणेनेति । ननु प्रधानस्यैव जगत्कारणत्वमिति वदन्तं प्रति ईक्षणाभावात् मुमुक्षध्येथत्वाभावात्