पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ यदि । भाष्ये 'निःश्वनिपेतद्यदृश्छेद' इति । ऋग्वेदादिनिखिलप्रपञ्चो नेि:धान् न त्वेतत्त्रविषयवाक्यत्वेनेति । अल केचित्-पूर्वसूत्रे चेतनत्वावगमक गतिमामान्यं विवक्षितम् । इह तु बहूनां परमात्मसाधारणानां श्रवणमुच्यत इति विशेष । अयमेव विशेषः पूर्वसूत्रोदाहृतश्रुतिभ्योऽत्रोदाहृतश्रुतीनाम् । इतरथा एतदुपनिषदूनानां गतिसामान्यादित्यनेनापरिप्रहे हेत्वभावादिति वदन्ति । ननु श्रुत्यन्मरोदाहरणे प्रथमोक्तनामरूपव्याकरणप्रतिपाद्क्श्रु त्यन्तरे प्रथमोदाहर्तव्ये, 'न तस्य कश्चित् ति'रिति गुणान्तरवाक्यस्य कथं पूर्वमुपादानमित्याशङ्कयाह - नाल ब्रह्माज्ञानवादिनोऽननुगुणत्वं पूर्वमुक्तमिति । जन्मादिस्ले, 'एव मुत्तरेषामपि सूत्राधा 'मित्यादिनोक्तमित्यर्थ । प्रामाणिकम्याप्रामाणिकत्वाभि मानादिति । प्रामाणिकस्याप्यसिद्धान्त। दृष्टा अप्रामाणिकत्वाभिमानादित्यन्वयः । अपसिद्धान्तता असिद्धान्तत्वमित्यर्थः । यथा ब्रहोपादानत्वस्य शाश्वान्तरसिद्धत्वाभाव इति भावः । सुत्रकारश्रुत्योनिर्देश इति । श्रुतिनिर्देशात् सविशेषत्वं प्रामाणिकम् । सूत्रकृतोक्तत्वात् असिद्धान्तत्वशङ्कापि नास्तीत्यर्थः । अपिशब्दाभिप्राय इति । ज्ञातृत्वसमुचयार्थोऽपिशब्द इति भावः । अत एव निर्विशेषचिन्मात्र इत्याद भाष्यस्यायमर्थः – जिज्ञास्यब्रह्मणः पारमार्थिकेक्षणगुणयोगित्वस्थापनात् निर्विशेष ब्रह्मवादः सूत्रकृता निरस्तः । न च जिज्ञास्यब्रह्मणो गुणयोगेऽपि परस्य ब्रह्मणो न तथात्वमिति वाच्यम् ; वेदान्तवेधन्नह्मण एव जिज्ञास्यत्वं प्रतिज्ञाथ तस्य चेतनत्व लक्षणेक्षितृत्वं प्रतिपाद्य तद्वारा प्रधानव्यावृत्तिप्रतिपादन । न च चिद्रपत्वलक्षण चेतनत्वलक्षणमीक्षितृत्वं प्रधानव्यावर्तकतयोच्यत इति वाप्यम् - चेतनशब्दस्या तदर्थत्वात् । तत(सत!)श्च चेतनलक्षणेक्षितृत्वसिद्धेौ व्यावृत्यसिद्धेरिति । वेदान्त द्यमिति भाप्यस्य पूर्ववाक्योक्ताक्षेपपरिहारपरत्वं स्वरसमिति व्याचष्ट-यद्वा खरूपमेव साक्षित्वमिति । द्रव्यत्वाभ्युपगमात् द्रव्यभिन्नगुणवचनत्वं नेत्यत आह -