पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (ईक्ष्यधिकरण: १-१-५) ३४७ गुणशब्दो धर्मपर इति । तत्क्षमत्वमभ्युपगम्येति । तदुभयरूपत्वाभवेऽपि ननु, ' यत् कालान्तरेणापि नान्यसंज्ञमुति वै । परिणामादिसम्भूतां तद् वस्तु नृप तच किम् । इति वस्तुत्वस्य परमात्ममात्रनिष्ठस्य न प्रमाणविषयत्वप्रयोज्यत्वम्, प्रमाणविषयेष्वपि अचिद्वस्तुषु तादृशवस्तुत्वाभावादित्याशङ्कयाह-वस्तुत्वं चेिदचित्साधारणमिति । परस्त्वित्यादि । जीवं निर्दिश्य सच्छब्दवाच्यस्येति । 'अनेन जीवेनात्मन्ननुप्रविश्य 'इति वाक्य इति शेषः । अनेन जीवेनात्मना=मम स्वरूपेण अनेन जीवेनेति सच्छब्दिताया देवताया वाक्यमिदमिति भाव । ननु गौणश्चेन्न जीवशाब्दादित्युक्तऽपि न स्वारस्थम्, जीवस्यात्मत्वव्यपदेशादित्यस्यार्थस्यासिद्धेरिति अस्वरसादाह-स्वरूपपर आत्मशब्दः सापेक्ष इति । अन एव ‘यत् योन्यां गायति तदुत्तरयोर्गायति' त्यत्र उत्तरशब्दस्य ग्रन्थविशेषसंज्ञारूपेण रूढत्वात्तस्यैव ग्रहणम् न तु योन्युत्तरयोः । सम्बन्धिशब्दत्वेन सापेक्षश्चे विलम्बितप्रतीतिकत्वादित्युक्तम् 'नैमित्तिकं तूत्रात्वमानन्तर्यात् प्रतीयते’ इत्यत्र नावमिकाधिकरणे(९-२-५) । ममात्मा भद्रसेन इतिवत् । अनेन जीवेनात्मना इत्यामशध्दो गौण इत्याशङ्कय तन्निराकरणार्थ 'सन्निष्ठस्य मोक्षेपदेशात् ’ इति सूत्रमिति परैख्यस्यातम्, तद्दषयति-चिदचिदा त्मकेति । परमसाध्यस्य हेतुवाचीति युक्तमिति । अत एवास्वारस्यात् शङ्कर भाष्येऽपि, अथ वा पूर्वसूल एवेत्यादिना परमसाध्य एव हेतुतया तृतीयसूत्र योजितमिति द्रष्टव्यम् । यथा सोम्य मधुकृत इत्यादि । मधुकृतो मक्षिकः । मधु नितिष्ठन्ति-निष्पादयन्ति नानात्यानां=नानादिज्ञानां वृक्षणां रसान् समवहारं समाहृत्य एकताम् एकभावं मधुत्वेन, रसं गमयन्ति-मधुत्वमापादयन्ति । ते रसा मधुत्वेनैकीभूतः तत्र मधुनि विवेकं न लभन्ते, अयमस्य वकुलस्य रसः, न चूतस्य रस:-एवं सतैकीभूता अपि प्रजा विवेकं न लभन्त इत्यर्थः । (अ. ५.)