पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रत्यवस्थिमं निषेधेन, इह तु तदभ्युपेत्य प्रधानाद्यपि कारणमिति प्रत्यवस्थीयते , सुग्रकारोऽप्यपिशब्दं प्रयुञ्जानो ब्रह्मभ्युपगमेन काचित्कोऽयं बिचार इति सून्नया मासेत्युक्तम् । इति वदन्ति । कारणवाक्यविचारपरे अस्मिन्नधिकरणे, * तस्माद्व। एमादात्मन आकाशः संभूतः । इत्यारभ्य श्रयते इति वक्तये भाप्य कृपा किमेि,ि * स वा एष ! इत्यादिकमुदाहृतमित्याशङ्कयाह-कारणविषयस्ये ि। आत्मशब्दव्याख्यानोप क्रमभूतमिति । . ततश्चात्मशब्दव्याख्यानानां मध्ये स वा एष इत्यस्योपक्रम भूत्वात्, विषयभूतका२णवाक्योन्क्रमत्वाभावेऽपि प्रकृतेत्युक्तिरुपपन्नेति भावः । चेतनत्वादावभ्युपगम इति । सर्वज्ञशब्दप्रतिपन्नचेतनत्वेऽभ्युपगमः । सर्वेश्वर शब्दप्रतिपन्नजीवातिरेके नाभ्युपगम इत्यर्थः । ततश्च जीवातिरिक्तत्वादेः प्राग नुक्तत्वात् अनुक्तांशे कथं सत्यशव्दप्रयोग इति न चोदनीयम् । इदमुपलक्षणम् । उक्तांशे अङ्गीकारः, उक्तस्य वास्तवश्वांशे त्वनङ्गीकार, सत्यभुक्तमितिग्रन्थस्वारस्या दित्यपि द्रष्टव्यम् । अस्वारस्थसूचंक इति । क्रियासङ्गतैवकारस्यात्यन्तायोगव्यव च्छेदार्थपरत्वादिति भावः । ननु सांख्यमते जीवस्यं प्रत्ययार्थीभूकर्तृत्वाभावात्। ईक्षितृत्वमनुपपन्नमित्याशङ्कच, प्रत्ययार्थानुपपत्तावपि प्रकृत्यर्थो पतिरेित्यभिपयन्नाह साक्षित्वमेवेति । नन्वमिन्नधिकरणे जीवब्रह्माभेः पूर्वं क्ष्यभिमतः, तद्वेदस्तु सिद्धान्त्यभिमत इति भाष्यकृता जीवब्राभेदद्वेषानुबन्धवशात् परं व्यास्यायते । न त्वेवं सूत्रकृभिप्रायः, तद्वशाभिप्रायज्ञापकाभावादित्यत आह-भेदव्यपदेशाचे तीति । जीचंव्यतिरेकासिरिः । जीवभिन्नत्वसिद्धेरित्यर्थः । नैकरूपज्ञान स्येति । ज्ञानसंकोचविकासरूपावस्थायोगित्वादिति भाव । प्राप्यत्वानुगुणेति । अचिद्वियुक्तस्वरूपस्य प्राप्यत्वे आनन्दमयतया पुरुषार्थत्वमित्यभिप्रायः । ज्ञायते अनेनेति व्युत्पत्येति । मनोबुद्यहङ्कारभेदेन अन्तःकरणद्वैविध्यस्य सांस्याभि मतत्वात् सांख्यमते बुद्धिशब्दस्यान्तःकरणपरत्वेन तत्र विज्ञानशब्दस्य व्युत्पति संभंवादिति भावः । विकारपरत्वाभावाचेति । ननु पूर्वपक्षिण विकारपरत्व प्रत्याख्यानम्, “विकारशब्दान्नेति चेन्न प्राचुर्था' दिति भूत्रविरुद्धम्, तस्मिन् सूत्रे विकारार्थवस्यैव पूर्वपक्षहेतुतयोपन्यासात्, मयट्प्रत्ययस्वार्थकत्वविकारार्थत्यो