पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१-६) बिज्ञानमयशब्दश्य पथमश्रुन्नत्वेनासञ्ज्ञानवित्पित्,ि ज्ञायतेऽनेनेति व्युत्पत्त्या विज्ञानमयशब्दस्यान्त:करणपरत्वेऽपि प्रकृतिप्रत्ययस्वारस्यात्, विपरत्वे द्वयोरपि स्वारस्यापरित्यागात्, विज्ञानमयशब्दानुरोधेनैव त्रिज्ञानशब्दो नेय इति भावः । घेतनपरन्वादेवेत्यर्थ इति । 'व्यपदेशाच क्रयायाम्' इति सूत्रे 'विज्ञान यज्ञे तनुते ' इति वाक्यस्व जीवकर्तृत्वे प्रमाणतया परैरप्युपन्यासदिति भावः । वोदुरेव हि कर्तृत्वमित्यादि । जानामि करोमीति प्रत्यक्षेण, 'एष हि द्रष्टा श्रोत भन्ता बोद्धा कती विज्ञानात्मा पुरुष इत्यादिश्रुतिभिः, 'कर्ता शास्त्रार्थवत्त्वा'दित्यादि सूत्रैश्चेत्यर्थः । ननु न कर्तृत्वं चेनैकान्तम्, अचेतनानामपि कर्तृत्वसंभवात् । शुक्र यजमानोऽवारभत इत्यादिविहितशुक्रान्वारंभणादौ अस्थियागपक्षे अचेतनानाम् अस्थ्नां स्वातन्त्र्यलक्षणकर्तृत्वासंभवात् शुक्रान्वरम्भणादिकमकर्तव्यमिति पूर्वपक्षं कृत्वा, काष्ठानामपि ज्वलनादौ कर्तृत्वसंभवेन. कर्तृत्वस्य चैतन्यानपेक्षत्वेन अस्झां कर्तृत्वं संभवतीति दशमे सिद्धान्तितत्वात् इत्यभिप्रेत्याशङ्कते – ननु सर्वेषामिति । विज्ञानशब्दास्वारस्यमुभयोरविशिष्टमिति । 'विज्ञानं यज्ञ तनुत ? इत्यत्र विज्ञान शब्द इत्यर्थः । न तु विज्ञानमयशब्दगतविज्ञानशब्दे । सिद्धान्ते तत्रत्यविज्ञान शब्दस्य ज्ञप्तिपरत्वेनास्वारस्याभावादिति द्रष्टव्यम् । स च प्रकरणानुवृत्तश्रेदिति । विज्ञानमयात्प्राचीनेष्वन्नमयादेषु' इति भाष्ये सर्वेष्विति पदमध्याहर्तव्यमिति भावः । अनुप्रवेशश्रवणादिति । अनुप्रवेशकर्मत्वश्रवणादित्यर्थः । व्याप्यत्वश्रवणादिति यावत् । आत्मान्तरस्थितिश्रवणादिति । न च 'स्वे महिन्नि प्रतिष्ठित ' इतिवत् भेदत्यौपचारिकत्वमिति वाच्यम् –“उभयेऽपि हेि भेदेनैनमवीयत इति सूत्रे विज्ञानशब्दस्य जीवपरत्वमेव, न तु परमात्मपरत्वम्, अभेदे भेदोपचारलेशस्यानाश्रय णीयत्वादिति परैरेवोक्तत्वादिति द्रष्टव्यम् । सर्वत्र प्रयुक्तस्येति । 'विज्ञानं चाविज्ञानं च', 'विज्ञानं यज्ञे तनुत ! ड्रत्येवंभूते सर्वत्र वाक्ये प्रयुक्तस्य विज्ञानशब्दस्य कर्तृवाचित्ययान्तत्वे, 'नपुंसके भावेक्तः,"ल्युट् 'इति िविहतभावार्थेत्युडतस्यैव नपुंसकतयां, तदतिरिक्तीर्थस्य स्युडन्तस्य विशेष्यनिन्नतया नपुंसकत्वनियमाभावेन ऑस्मविषयस्य विज्ञानशब्दस्य पुलिङ्गत्वापतिरिति भाव । श्लोकस्थ ज्ञातृपस्त्वा