पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५६ श्रीरङ्गरामानुजमुनिविरचिता भावेऽपीति । वस्तुशब्दस्येहानुपात्ततवा नदभित्रेण नपुंसकलिङ्गनिर्देशो न युक्त:। अत एव सारस्वत्यां मेष्यां पशुश:भिप्रायेण , 'प्रास्मा अ िभरते ' ति निर्देो युक्त इ१ि पूर्वपक्ष कृत्व, पशुशब्दस्य आगनुपात्तया सारस्वत्याश्च मेप्या बस्तुन स्त्रीत्वान्, प्रास्यः इत्येवं स्त्रीलिङ्गनिर्देशः कर्तव्य इति पूर्वतन्त्रे नवमे स्थितत्वात्, वस्तुशब्दाभिप्रायेण नपुंसकलिङ्गनिर्देशोऽनुपपन्नः । किन्तु, * अन्योऽन्तर आत्मा विज्ञानमय ' इत्यात्मशब्देन भानिर्देशात् छेि निर्देश एवोचितः । अतो 'विज्ञानं यज्ञ तनुन । इतिं नपुंसकविज्ञानशब्देन ज्ञप्तः परामर्श इत्यभ्युपगमेऽपीत्यर्थः । तन्मयतद्विकार इति पदद्वयस्य प्रयाजन्माह--नन्मय इतीति । विरुद्धधर्मा ‘ध्यासप्रतिपत्येति बिरुद्धधर्माश्रयत्वप्रतिपत्थेत्यर्थः । सहेतुकमविरुद्धमिति । हेयप्रत्यनीकत्वदोषाश्रयत्वयोरविरोधसमर्थनं प्रथमशिरःपरिग्रहं हेतूपन्यासपूर्वकं परमुखेन शङ्कत इत्यर्थः । हेयसंबन्ध प्रतिभासेो मिथ्यारूप इति भाष्यं व्याचष्ट – हेयं दुःखं मिथ्याप्रतिभास इति । ननु प्रतिभासो मिथ्यारूप इत्ययुक्तम् । साक्षिरूपस्याविद्यावृतेि०पस्य वा स्क्रूपतस्मत्यत्वेन मिथ्यात्वाभावादित्याशङ्कयाह – भ्रान्तिज्ञानमिति । तत्कार्यदुःखप्रतिभासाश्रयत्वं चैव हि हेथसंवन्धः ? इंत भाष्यमयुक्तम् । तथा हि सति दुःखाश्रयत्वस्य हेयसंवन्धरूपत्वं न स्यादित्याशङ्कयात्रत्यम्चैव कारस्य हेथसंवन्धवरूपविशेषणान्विततया तद्योगव्यवच्छेदकत्वमेव, नान्ययोग व्यवच्छेदकत्वमित्यभिप्रयन्नाह --- न केवलं दुःखमेवेति । क्षणिकस्य यागादेः श्रुतकालान्तरभक्स्विर्गसाधनतोपपतये तावत्पर्यन्तस्थायी अपूर्वलक्षणो व्यापारः परि कल्प्यते, न तु विनष्टस्यासत एव यास्य कार्यजनकत्वमिति वा, तस्यैव फलपर्यन्त स्थायित्वमिति वा कल्प्यते, तस्य सर्वप्रमाणविरुद्धत्वात्, इत्यपूर्वाधिकरणे निर्णी तत्वात् इति भाष्याभिप्राय इत्यभिप्रयन्नाह-- परिहरतीति । अप्रामाण्यं प्रसजे दित्यर्थ इति । काकदन्तमीमांसासदृश्यां (सादृश्यातूं) कर्ममीमांसायां कस्यापि अप्रवृत्यां मीमांसारूपाङ्गासहकृतस्य च वेदस्याप्रत्यायकत्वात् । प्रमितिजनकस्वरूपं प्रामाण्यं न स्यादित्यर्थः । तद्विषयान्तर्गतमिति । ज्ञानान्तर्गतत्वोक्त्या विषयान्त र्गतत्वं लक्ष्यत इति भावः । सर्वमिति शेष इति । सर्वज्ञानविषयभूतवस्तुजातं