पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ५ सर्वे यचेकज्ञानविषयान्नर्गतमित्यर्थः । न तु ज्ञातत्वविशिष्टाकारेणेति । सत्वाभावादिति भावः । सर्वत्वविशिष्टाकारेणेति ! सर्वत्व रुपविशेषणस्यज्ञातत्वादिति भावः । एतत्कालादिवेिशिष्टतया ज्ञातत्वमितेिच्छेदः । समानाधिकरणवृत्तानमित्यादेः सेोऽयं देवदत्त इति समानाधिकरण वाक्यपर्यवमानं प्रतीयते । तावन्मात्रपर्यवसाने, तत्त्वमसीत्यादिपक्षविषयग्रन्थम्य कस्यप्यभावात् प्रकृतानुपयोगमाशङ्कयाह – पक्षविषयसङ्ग्रहरूप इति । ततश्च भीलमुत्पलमित्यादिग्रन्थस्य पक्षवेिषयसङ्गहविधिविस्तररू4त्वात् पौनरुक्यादि शङ्कापि परिहृता भवतीति भावः । भाष्ये न हेि नैल्थविशिष्टाकारेणेति । इदमुपलक्षणम् ; 'न हि उत्पलत्वविशिष्टाकारेण नस्तु नैल्येन बिशेष्यते जातिगुणयोरन्योन्यसमवायप्रसङ्गात् । इत्युतरभाप्यनुसरादिति द्रष्टव्यम् । विशेष णान्वये स्फुटेऽपीति । विशेषणान्वये अभ्फुटतात्पर्याभावमुदाहरणमुक्ता, स्फुट तात्पर्याभावमुदाहरणान्तरमाहेतिं पर्यवसितोऽर्थः । तत्र विशेपणान्वयस्य स्फुटत्वादिति । एकस्मिन्नीलस्वदशायामेव उपलबान्वयासम्भवादिति भावः । अशक्ये कचिापाराभावादिति । अशक्यविषयव्यापारस्यैव लक्षणात्वात्, प्रकृते च तदभावान्न लक्षणेति भाव । अशक्यव्यापाराभावमेवोपपादयति – व्यापार विषयांशेऽपीति । शक्ये व्यापाराभावदिति पाठे शक्यैकदेशे कचिद्यापाराभावमात्रेण न शक्यांशेऽपि लक्षणेत्यर्थः । ननु नीलमुत्पलमानयेत्यत्र उत्पले नीलत्ववैशिष्टयप्रतीतिः न समा नाधिकरणवाक्यायत्ता, अपि तु प्रत्यक्षादेवेति शङ्कां व्युदसितुं : भाष्यकृता विन्ध्याटव्यमिति परोक्षोदाहरणमुपन्यस्तमित्यभिप्रयन्नाह – प्रत्यक्षविषयं परोक्ष विषयं चेतीतेि । अत एव ह्यानीयते प्रतीयत इत्युक्तमिति । ननु नीलमुत्पलमानयेति वाक्ये आनयेत्युक्त्या आनीयत इति वकुमुचितत्वात् तथोक्तम्; न तु प्रत्यक्षत्वस्फोरणार्थमिति चेन्न – शब्दजन्यप्रतीत्याकारस्यैवोपन्यसनीयतया आनयनपर्यन्तोपन्यासस्य तदभिप्रायकत्वादिति भावः । विभक्तम्यर्थेऽनादृत इति । न तु प्रकृत्यर्थे इति भाव । अत एव 'संस्काराद्वा गुणानामध्यवस्था स्यात्' इत्यधि