पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६० दधिकरणे अरुणापद्रवत त्रिपयत्वात् ! यदुक्त रवलेकपोतन्यायेनेच्यादि, तन्न ! श'व्द बोधे क्रमेिकान्वयवेधस्यैव दर्शनेन बलेकपोतन्यायस्यासंप्रतिपतेरिति नात्पयत् । ३ चः ब्दद्वन्द्रादिक्षत्वे च अरुणाशब्दस्य द्रल्यान्तरत्वप्रयङ्गेन अभ्णकायनीशब्दय सिद्धान्त्यभितसामानाधिक प्थाििद्धप्ताद्बस्थ्यापातादित्यपि द्रष्टव्यम् । न च यज्ञेन दानेनेत्यादिवाक्ये चशब्दाभावेऽपि यज्ञदानाद्यर्थविधानवत् अरुणैक्हायन्येति कारकद्रयविधानमस्त्विति वाच्यम्-तन्न चशब्दस्याध्याहर्तव्यत्वात् । अत्र चशब्द ५१ः वाक्ये क्रयस्यापि न विधानम् ; : तं वै दंशाभिः क्रीणाती ' ति चाक्येन दशभिरिलयंशे वाससा क्रीणाति, हिरण्येन क्रीणाली ' ति वाक्यप्राप्तसंख्यानुवादरूपेण क्रयविधि संभवान् अन्यत एव क्रयसिद्ध । अतः गुणमात्रवेिधा सिद्धम् । अत्र प्राप्त ऋयानुवादेनारुणाद्रव्यस्य एकहायनीद्रव्यस्य च विधाने वाक्यभेदप्रसङ्गात् अरुणि विशिष्टकहायनीद्रव्यविधानं वक्तव्यम् । तच न संभवतेि । कारकविभक्तयन्नत्वस्य सामानाधिकरण्थविरोधित्वेनान्तरविशिष्टस्यान्यतरस्य विधानायोगादिति पूर्वपक्ष कृत्वा, कारकविभक्तयन्तत्वस्थ च सामानाधिकरण्याविरोधित्वात्, अन्यतरविशिष्टस्या न्यतरस्य क्रयानुवादेन विधानमितेि. सिद्धान्तवर्णनं भाष्यकृतामभिमतम् । न च स मानाधिकरण्यचशेनन्यतरविशेषितस्यान्यतरस्य क्रमे विधाने , * अमेयोऽष्टाकपालः ! इत्यत्रापि सामानाधिकरण्यवशेनान्यतरविशेषितस्यन्यतरस्य द्वन्द्ववाक्यविहितकर्मानु वादेन विधानसंभवात् पौर्णमास्यधिकरणविरोध इति वाच्यम्-यत्र क्रियान्वयात्प्रागेव विधिभनात्यैव सामानाधिकरण्येन षष्ठया वा मिथस्संबन्धितया शब्देन प्रति पादितानेि भन्त्रार्थवादादिप्रसिद्धानेि, तस्रान्थतरविशिष्टस्यापि प्राप्तकर्मानुवादेन विविः संभवति । अत एवाभ्युदयेष्टयाम्, 'येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम्’ इत्यादौ शिपिविष्टत्वविशिष्ट विणुः प्राप्तानुवादेन विधीयते, प्रसिद्धश्च विष्णुः शिपिविष्टो मन्त्रार्थवादादिषु, नैवमाझेयस्यष्टाकपालस्य लोकतो मन्त्रार्थवादतो वा प्रसिद्धिरस्ति । एवमेव ह्यश्वरमीमांसायां बार्तिकादौ पौर्णमास्यधिकरणे वर्णितम् । ततश्चारुणैकहायनीद्रव्यस्य लोकप्रसिद्धत्वात्, क्रियान्वयात् प्रागेव.सामानाधिकरण्यवशेन मिथस्संबन्धित्वावगमात् आरुण्यविशिष्टैकहायनीद्रव्यं विधीयते । अमुमेवारुणाधि