पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजनुशिविरचिता द्रयपर्यन्तवाचीत्यर्थः! विशेष्यैक्यं सामानाधिकरण्यावसेयमिति । समानविभक्तिः लक्षणश्रुतिगम्यमित्यर्थः । कारकविभक्तः समानविभक्तित्वाकारेण विशेष्यैवये शक्तरेवा भ्युपगमात्, न तु पूर्वतन्त्र इव पदद्वयमन्नाधिकरण्यरूपपदान्तरसमभिव्याहारलक्षण वाक्यावसेय इति मन्तव्यम् । क्रयान्वो वाक्यावसेय इति। ननु कारकविभक्तित्व कारात् क्रयान्वयबोधनम्, एकत्रचनत्वांछाकारत् संख्यान्वयवोधनम्, समानविभक्ति त्वाकारान् परम्परान्वयबोधनमिति वदत: सिद्धान्तिनो मते क्रियाकारकसंवन्धस्यापि विभक्तिलक्षणश्रुतिगम्यत्वेन श्रौतया कथं वाक्यगम्यत्वम् । अध्वरमीमांसकैरपि क्रियाकारकसबन्धस्य श्रौतत्वभ्युपगमादिति चेन्–सत्यं क्रियाकारकसंबन्धः श्रौतः विभक्तयाख्यश्रुतिगम्यत्वात् । अथापि क्रयात्यक्रियाविशेषान्वयप्रतीतेः क्रिणाति पदसमभिव्याहारलक्षणवाक्यगम्यत्वात् तथोक्तमिति द्रष्टव्यम् । यद्वा क्रयान्वयो वाक्याव सेयं इत्यस्यायमर्थ -कारकविभक्तिलक्षणश्रुतिगम्य कारकसंबन्धविशिष्ट क्रयविधान मेव वाक्यकृत्यमिति । अयं भावः- यद्युभयत्र विधिव्यापारः स्यात्, तदा विध्या वृतिलक्षणो वाक्यभेदः स्यात् । इह तु विभक्तिश्रुतिसमर्पितारुणिमगुणाश्रयद्रव्याभित्रैक हाययन्त्रयविशिष्ट क्रये विहिते, तद्विशेभणानामाक्षेपत एव विधानसिद्धेर्न विध्या वृत्तिलक्षणो वाक्यभेद इति । द्वारान्वयद्वान्वयरूपार्थयोरितेि । गुणस्य हेि अन्वये गुणपरिच्छिन्ने द्रव्ये द्वारम् । ततश्च द्वारिणो गुणस्य द्वारभूतद्रव्यान्वयस्य क्रयान्बयस्य च वोध्यत्वाद्वाक्थभेदप्रसङ्ग इत्यर्थः । भाष्ये सर्वविशेषणविशिष्टोऽर्थ एक इति ज्ञापयित्वेति । नन् रूणिमाश्रयद्रव्याभिन्नत्वेन प्रतीताया एकठ्ठायन्याः क्रयसंवन्धे खलेकपोतन्वायेना हणायाः क्रयसंबन्धो न स्यात् । न चेष्टापत्तिः ! तथा हि सति 'चतुरो मुष्टीन्निर्वपति ' इत्यत्र मुष्टीनामेव चतुस्संख्यापेक्षा विशेष्यत्वेन प्राधान्यात् मुष्टीनामेवानुप्राह्यत्वेन संख्याया एव. बाधप्रसङ्गेन संख्यामुष्टयधिकरणविरोधा पतेः । तथाहि - वाजपेये श्रवते, 'बार्हस्पत्यो नैवारः सप्तदशशरावश्ध रुर्भवती 'ति। अत च प्रकृतौ, 'चतुरश्चतुरो मुष्टीन्निर्वपती'ति । तत्र न मुष्टीनां द्वितीयाश्रुतिबलात् निर्वापसंस्कार्यत्वमुपपद्यते । निर्वापसंस्कृतानां मुष्टीनां भूतभव्युपयोगाभावेन चतुसंख्याया मुष्टिभिश्च निर्वापः कर्तव्य इति तस्यार्थ इति