पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्रुत्यपेक्षया एकमत्यश्रुतेः प्राबल्यम् । अनएव सोमेन यतेत्यादैौ लिङर्थ भावनायां समानपदोपात्तधात्वर्थस्यैव करणत्वैनन्यः , न भिन्नपदोपातसोमलतादेः, तथा पशुना यजेतेत्यत्र एकत्वसंख्याया एकप्रयोपात्तःकरणकारकशेषत्वमेव, न त्वेक पदंपातपश्चङ्गत्वमित्यादि व्याकुप्येत, श्रुतिवाक्चमलालयो: प्रतीतिविलम्बाबिलम्व प्रयुक्तत्वादिति शङ्का पराकृता – परामर्शदशावर्तिविलम्वानिलम्बावादाय प्राबल्य दौर्बल्योपपत्तरिति तापर्यात् । केवितु, --'विशिष्टोऽर्थ एक इति ज्ञापयित्वा, तस्य क्रियासंबन्धाभिधानमविरुद्धम्, ‘अनेकविशेषणबिभिष्टं प्रतिपन्ने युगपक्रियायामन्वेति इत्यादिक्रमप्रतिपादकभाष्यस्त्रारम्यात् मीमांसाविरोधात् वाक्यार्थबोधयौगपद्यमदर्शकस्य टीकावाक्यस्यैवान्यपरत्वं वर्णनीयमेित्याहुः । असाधारणार्थ च व्युदस्यतीतेि । “ यत् पुनः क्रयस्यैकहायन्यवरुद्ध तये ' त्यादिना वक्ष्यमाणार्थोऽसाधारणार्थ इनि ध्येयम् । तदभ्युपगम्येति । पराभिमतस्य सामानाधिकरण्यस्य सत्वान्न गुणमात्रप-तत्वमिति दूषयतीत्यर्थः । असमानाया विभक्तेर्निर्देश इति । असमानायाः सुविभत्तेर्निर्देश इत्यर्थः । ततश्च श्रेतो धावतीत्यत्र तिङोऽपि विभक्तितथा असमानविभक्तिनिर्देशसत्वात् केवलगुणाभिधायित्वप्रसङ्ग इति चोद्यस्य नावकाश इतेि ध्येयम् । विशेष्प वाविभागशब्देनेति । ततश्च विशेष्यवाचिशब्देनासमानविभक्तिनिर्देश एव केवलगुणमात्रवाचित्वे प्रयोजकः । ततश्च पटकाव्देनासमानविभक्तिभिर्देशोऽ प्रयोजक इति भावः । यथा त्वत्पक्ष इति । गुणमात्रापवादकभागशब्दसामानाधि करण्यबलेन धर्मिपर्यन्तत्वेऽप्युपातद्रव्यकवाक्यस्थत्वस्य गुणमात्रवाचित्वप्रयोजकत्वस्य उत्सृष्टस्य थथा न हानिरित्यर्थः । ननु कल्पनागौरवै भाष्ये कुतो न कण्ठोक्तमित्यत आह--इदमर्थसिद्धमितीति । अश्वमीमांसकैरेवं पूर्वपक्षः कृतः-अरुणाशब्दोऽ यमाकृत्यधिकरणन्यायेन गुणवचन एव; न द्रव्यवचनः । तलारुणाशब्देन गुणपरिग्रहे अमूर्तस्य गुणस्थ कथसाधनत्वं न संभवतीति तदनुपपत्था लक्षणया द्रव्यपरिग्रहेऽपि अरुणाशब्देन लक्षणाया एकहाथनीद्रव्यं विधीयते, द्रव्यान्तरं वा । न तावदेकहायनी द्रव्यं लक्षणया विधीयते । एकहायनीपदेन श्रुत्यैव विहितस्य एकहायनीद्रव्यस्या