पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/३९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६६ रुणापदेन पुनर्विधानाथोगा । न च तदतिरिकन् ; श्रुतैकहाग्रन्थवरुद्धता लनि द्रव्यान्तरविधानायोगादिति । तदेतदनुभपते-भाग्ये यत्पुनरिति ! भाप्ये तदाश्रय गुणाभिधानेनेति । तदाश्रयगुणद्वारा गुण्यभिधायितया गुणिनोऽपि वाच्यत्वेन, श्रुतैऋायन्यवश्द्ध अरुणादलक्षितस्य निवेशो न संभवतीत्युतेरयुक्तत्वादिति भावः । टीकाग्रन्थेोऽप्येवमेव योजनीयः । वाक्यैकत्वे कथंचित्संभवतीति । अतस्यापि गुणस्य द्रव्यपरिच्छेदमुखेन क्रयसाधनत्वसंभवेन एकवाक्यत्वसंभकादित्यर्थ निविंशेयवादिन इत्येतावता पर्याप्तत्वेऽपीति । लक्षुस्वात् तथैव निर्देष्ट शक्थत्वेऽपीत्यर्थः । द्वारद्वारिभाविपर्ययेति । त्वंशब्दस्य जीवद्वारा परमात्माभिः धायित्वे तच्छब्दस्य वा परमात्मद्वारा जीवाचेित् किन्न स्यान् इति शङ्कानेिरासार्थ श्राथमारम्भ इत्यर्थः । ततश्च समर्थितस्य पुनस्समर्थनं व्यर्थमिति चोद्य निरस्तमिति ज्ञेयम् । तत्पदसामानाधिकरण्येति । सामानाधिकरण्यबलान् तत्त्वंपदाव गतविशेषणानां स्वीकार्यत्वात् प्रवृत्तिनिमित्तत्यागे सामानाधिकरण्यभङ्गप्रसङ्गादिति भावः । सद्धास्कमवसीयत इत्यनुसन्धेयमिति । नामरूपमातुमिति शेषः । अद्वारकश्च गुणान्वय इति । किञ्चिद्वत्वादिगुणानां सद्वारकत्वम्; सर्वज्ञत्वादिगुणानां त्वद्वारकत्वमिति भावः । जगदाकारकथनमिति । 'देवादिविचित्रसंस्थानसंस्थित इति जगदाकारकथनं बक्ष्यमाणचिदचिदंशविभागार्थमिति योजना । ततश्च विचिन्न संस्थानसंस्थिते जगतीति निमेितसप्तमी । विवित्रसंस्थानसंस्थितजगन्निर्माणार्थमित्यर्थ इति भावः । जीककप्रवेशव्यावृत्यर्थमिति । परतन्त्रजीवकर्तृकःप्रवेशाद्वैलक्षणय सिद्धार्थमित्यर्थः । स्वपर्यन्तेष्विति । देवाद्याकारसंघातेषु स्वपर्यन्तेष्वेव नामरूपे व्याकरोत्, न तु संघातमात्र इति भावः । ल्यवन्तनिर्दिष्टानामिति । स्पृष्टानु प्रविश्येति प्राङ्कनर्दिष्टानामित्यर्थः । स्वं रूपं च स्वरूपमिति पाठः । स्वरूपशब्द विग्रहवाक्यस्य तादृशस्यैबोचितत्वात्, स्वशब्देन शरीरी ईश्वर उच्यत इति वक्ष्य मणत्वाच । स्वयंरूपं चेति पाठे विग्रहवाक्यस्मानार्थकं वाक्यान्तरमिति द्रष्टव्यम् । अस्मद्वाचित्वे सति हीति । यद्यपि मयेत्येकवचनानुसारात्, “मद्राचित्वे सति हीत्येव धतुमुचितम्-तथाप्यस्मच्छब्दार्थवचित्वमस्तीति तथा व्यवहृतमिति द्रष्टव्यम् । नन्विदं