पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता शङ्करादिकृतानां शारीरकच्याख्यानानाभनादरणीयत्वे हेतुमाह परमर्षि प्रणीतानीति । यत्तदोत्थिसम्बन्धात् अत्र यानीति शेषः । यानि परमर्पिप्रणीतानि शास्राणेि, तेषां महर्षिप्रणीतानि व्याख्यानानि सन्ति चेदित्यर्थः । व्याख्येयानी ते गहनार्थत्वसूचकम् । सल्ल्यपि ताभ्यनादृत्य व्याख्येयान्तराणि इत्यत्र व्याख्ये यान्तरकथनं दृष्टान्तार्थम् । यथा व्याख्येयान्तराणां शारीरकविरुद्धानामप्रामाणिकत्वम् तथा बोभ्राथनव्याख्यानविरुद्धानां शङ्करादिकृतव्याख्यानानामप्रामाणिकत्वमेित्यर्थः । य॥ तेषाश्च महर्षिग्रणीतानीत्यत्र चवशब्दो भिन्नक्रम । परमर्षिणीतानि व्याख्येयानि. तेषां महर्षिप्रणीतानि व्याख्यानानि च सन्ति चेत्, तान्येव व्याख्येयानि, व्याख्यानानि च अनुरोद्धव्यानीत्यर्थः । बाधकानुपलम्भादिति । “ सर्वत्र प्रसिद्धोपदेशा । दित्यत्र व्याख्यानान्तरवर्णनं परमतानुसारेण कृतम् । अनन्तरमेव वृत्तिकारोक्तार्थ वर्णनात् । अतो न तद्विरोधः । पूर्वभागार्थानां शिक्षणीयत्वमिति । अरुणाधि करणादिष्विति भावः । अखिलेतिश्लोकार्थविचारः इष्टदेवतोपासनरूपं भङ्गलमिति । उपासनाशीरूपं मङ्गलमित्यर्थः । अत एव वक्ष्यति, * वस्तुनिर्देशः, भवस्वित्याशीर्वादश्ध कृतौ भवत ' इति । केचित्त भक्तिप्रार्थनमपि भक्तिरूपमिति मन्यन्ते । यद्वा उपासनस्य स्वतोऽनुकूलत्वमवाम्य तत् प्रार्थयमानेन तस्याप्यनुष्ठितत्वसम्भवादेवमुक्तमिति द्रष्टयम् । मङ्गलाचार युक्तानामिति । न च इदं वचनं जपहोमादितुल्यतया आदर्शदर्शनादिमङ्गलाचारस्य बिंनिपातनिवृत्तिहेतुत्वावगमकम्; न त्वारम्भकाले मङ्गलकर्तव्यतायां प्रमाणम् । अत एव मङ्गलानुष्ठाने आचारमेव प्रमाणयन्ति इति वाच्यम् –समाप्तिप्रतिबन्धकविन्नस्यापि बेिनिपातशब्दार्थत्वेन मङ्गलाचरणस्थ विज्ञानवारकत्वावगमकत्वेन प्रामाण्यसम्भवात् । था चोदनासत्रे इतेि ** । “चोदनालक्षणोऽर्थो धर्मः ! (पू.मी १-१-२) इति सूत्रे यश्चोदनालक्षणः स धर्म इति धर्मस्वरूपे कथिते, यथा चोदनैव प्रमाणमिति अर्था दुक्तं भवति---तथेत्यर्थः । ग्रह्वीभावावगमात् प्रणतिरपि फलितेति । प्रणतेि रप्यनुष्ठितां भवतीत्यर्थः । ननु विनतेयुक्तिमात्रेण कर्थ 'प्रणतिरनुष्ठितेत्यवसीयते । 1, प्रणतिरपि ग. ।