पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७० श्रीरङ्गरामानुजभुनिविरचेिता तन्मतश्रद्धालुभ्य एव रोचतामित्यास्तां तावत् । घलवत्तर इत्युक्त इति । यद्यपि द्विवचनविभज्योपपदे तरीयबुनैौ ? इनि द्विवचनादिविशेषणवशात् आशिायनिक प्रत्ययेषु व्युत्पत्यन्त्रकल्नेऽपि मयटं न व्युत्पत्थन्तरकल्पनमस्ति । तथा हि सति भयट्प्रत्ययस्थले तरप्प्रत्यय इव समानाधिकरणविजातीयाल्यत्वापेक्ष प्राचुर्ये न प्रतीयते तथापि पूर्वोक्तयुक्तौ तात्पर्यम् ! मयटो व्छुन्पत्तिसिद्धमिति । इदमुपलक्षणम् । अत्र 'नित्यं वृद्धशरादिभ्यः इति सूत्रे ' मयद्वैतयोर्भाषायाम्' इत्यतो भाषायामित्यनु दृत्या, तस्य सूत्रस्य भाषाविषयत्वेन, आनन्दमय इत्यादौ न तेन सूत्रेण मयट्प्राप्तिः एतस्य छन्दोविषयत्वात् । नापि द्यकश्छन्दसीत्यनेन प्राप्तिः । आनन्दशब्दस्य द्यच्वा भावत् । तस्मात् तत्प्रकृनवचने मयडिति प्राचुर्यार्थमयडेोचित इत्यर्थोऽत्राभिप्रेत ? द्रष्टव्यम् । कथं दुःखाज्ञानेति । अत्र क्रमो न विवक्षित , ज्ञानानन्दाविति निर्देशानुसारेण तत्प्रतिद्वन्द्वितथा कथमज्ञानदुःखसंभव इत्येव निर्दष्टव्यत्वादिति द्रष्टव्यम् ॥ १४ ॥ तद्धेतुव्यपदेशाच १-१-१५ सूत्रस्य भाप्येणानवतरितत्वात् स्वयमवतारयति – हेत्वन्तरं चाहेति । आनन्दयितृत्वस्यानन्प्रचुरवे उत्पादकतया हेतुत्वमुक्ता, उत्पाद्यतया ज्ञापकत्वलक्षण हेतुमाह-धनप्रचुरो हीति । इति सूत्रानन्तर्यमिति । अस्य सूत्रस्य पूर्व सूत्रार्थोपपादकत्वात् तदानन्तमित्यर्थः । पूर्वोक्त एव सम्यगर्थ इति । द्वितीय 'पक्षकत् “ अन्यात्, अण्यात् ? इत्युभयत्रापि धात्वोरर्थवैरूप्याभावात्, पृथकीर्तनी यभोगमोक्षयोः अपृथकीर्तनस्यायुक्तत्वाचेत्यर्थः । मान्त्रवर्णिकमेव च गीयते १-१-१६ मन्त्राणां प्राबल्यं केचिद्वदन्तीति कोशेषु दृश्यते । प्रथमसूत्रे मन्त्रापेक्षया ब्राह्मणप्राबल्यवादोऽनुपपन्न इत्युक्तः, तदविरोधाय मन्त्राणां(णाम?) प्राबल्यमिति पाठो युक्त इति । केचितु मन्त्राबल्यमपि वर्णयन्ति, तदनेन ग्रन्थेनानूद्यत इत्यपि वर्णयन्ति। तद्च्युदासार्थमाहेति। अत्र तट्युदासार्थमप्याद्देत्यपिशब्दोऽध्याहर्तव्यः। ततश्चा, किमुक्तं भवतीत्यत्राहेत्यवतरिते ग्रन्थे पुनरवतरिकादानमनर्थकमिति न चोद नीयम् । नित्यनिर्दोषत्वाविशेषादिति । यद्यपि नित्यनिदषत्वाविशेषेऽपि उप