पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परब्रह्मनिश्चयोत्तरभाविन्या इदं मूत्रमानन्दमयपरब्रह्मात्रनिर्णथाप्रयोजक्रमेव स्यात् । ततश्चानन्दमयस्य परमझवे, 'ददे आकाश आन्दो न स्मात्, विज्ञानमानन्दं ब्रह, आनन्दो ब्रोति व्यजनादित्यादीनामानन्दस्य जगत्कारणात्चब्रह्मत्वप्रतिपादकानां वाक्यानां विरोधमाशङ्कय परिहश्तीत्येवावतारेिका युज्यत इति चेत् – उच्यते । अवतरिकान्तरसद्भावेऽपि अस्यामवारकायां दोषाभावात् । न चोक्तदोष इति वाच्यम् ; अभ्युच्चययुक्तितयोपन्यासे दोषाभावात् । पूर्वोक्तहेतव इति । स्वप्रकाशाद्वा ज्ञानपदवाच्यत्वं तद्गुणप्तरत्वाद्वेत्येवमादय इत्यर्थ । भाष्ये यथा विज्ञानशब्देन विज्ञानमय इति । ननु विज्ञानशब्देन विज्ञानमवोत्तै, तद्गुण सारत्वात् श्रपदेशः प्राज्ञवदिति सूत्रकृता, * यदेष आकाश मानन्दो न स्यात् आनन्दो ब्रहेति व्यजानात् 'इत्यानन्दशब्देन प्राज्ञस्य निर्देशो दृष्टान्तीकृतः । इह तु आनन्दशॐदनानन्दमयम्य निर्देशे विज्ञानशब्दो दृष्टान्तीक्रियत इतेि तदेतदितरे सर(अयं स्यात् । इतरेतराश्रयाणि व कार्याणि न प्रकल्पन्ते । यथा नौनवि बद्धः नेतरेतरत्राणाय भवतीति – मैवम् । सूत्रकृता तद्गुणसारत्वादिति युक्तिसाम्येना पतति धर्मपर्यन्तत्वे आनन्दशब्दस्य दृष्टान्तीकरणेऽपि आनन्दशब्दस्य धमिं पर्यन्तत्वे विज्ञानशब्दस्य सूत्रकृता दृष्टान्तीकृतत्वाभावात्, एकोनसहस्राधिकरणन्यायेन तत्ताद्वप्रतिपतिदशायां तस्य तस्य दृष्टान्तीकरणे दोषाभावात् । प्राज्ञवदित्यत्र, सत्यं ज्ञानमिति ज्ञानशब्दस्यैव दृष्टान्तत्वसंभवाच । आनन्दानन्दमयशब्दयोरेक विषयत्वेनेत्यर्थ इति । आनन्दो ब्रहेत्यादौ ब्रह्मपदसमानाधिकृतानन्दशब्दस्य नन्दमयपरत्वाभावे, आनन्दं ब्रह्मणो विद्वानित्यादौ आनन्दस्यानन्दं विद्वानिति पर्यवस्येत् । ततश्चान्वयः स्यादिति भावः । नन्वलं ब्रहेति व्यजानात्, प्राणी ब्रक्षेति व्यजानादित्यादिषयांथेष्विव आन्दो ब्रवेत्यत्रापि आनन्दशब्दस्य वस्तुतो ब्रह्मपरत्वाभावेन नानयोरेकविषयत्वम्, आनन्दमयशब्दस्य ब्रह्मपरत्वादानन्दशब्दस्या ब्रह्मभरवदित्याशङ्का, पुनर्भूगोर्वरुणोपसत्यभावेनानन्दो ब्रह्मति व्यज्ञानादित्यत्रानन्दः शब्दस्य ब्रह्मपरत्वस्य सर्वाभ्युपेतत्वादानन्दमयब्रह्मत्वस्य समर्थितत्वाच एकविषयत्वमुप पन्नमित्याह--परमात्मत्वं हेि पराङ्गीकृतमिति । ननु अन्यात्, प्राण्थादिति पदाभ्यां सांसारिकमोक्षसुखहेतुत्वोक्तिरनुपपन्ना । एकेनैव पदेनोभयोक्तिसंभवात्। इत्यस्वरसादाह--अथवा अन्यादितेि सत्ताहेतुत्वमिति ।