पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५ पुलिङ्गान्तेति। कारणत्वमतिपादक, ' 1ऽकामयते 'त्यनन्तरवाक्ये पुलिङ्ग शठढेनानन्दमयस्य परामात् ! रूप धाभ्यनन्यैरिति । स्वस्मादनििरतैरवयवैः शिरःपक्षपुच्छादिरूपणप्रकरणादित्यर्थ । पठ्याश्विांशाभावादिति । समुदायावयव त्रिपथतया तस्य पुच्छमिति षष्ठधुपपतेरित्यर्थः । निरतिशयन्येति ! निरतिशयानन्दे सदसद्भावशासंभवादित्यर्थः । रूपणादिति । अवयवित्वस्यापि पुच्छत्वस्येत्र रूपण संभवादित्यर्थः । आनुरूप्यादिति । शोध्यत्वस्य स्वनुरूपत्वादित्यर्थः । पर्यायत्वा दिति । ब्रह्मात्मानन्दमयशब्दानां पर्यायत्वात् श्रेोकगतब्रह्मशब्दस्य तत्परत्वादित्यर्थः । अनन्यात्मेति । तस्यैष एव शारीर आत्मेत्यस्येत्यर्थः । यदा ह्यवैष ' इत्यादिवाक्यविषयतयेति । अस्मिन्नानन्दमये प्रति बोध्यस्य जीवस्य तद्योगम् - अभययोगम्, 'यदा द्वेवैष-एतस्मिन्नदृश्येऽनात्म्ये ऽनिरुतेऽनिलयनेऽभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती । ति शास्त्र शास्तीत्येवं तस्य सूत्रस्य तैयाख्यातत्वदिति भावः । भन्त्रवर्णे विषयीकुर्वतीति । “यो वेद नेिहितं गुहायां परमे व्योमन्, सोऽश्रुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते 'त्येतावत्पर्यन्तस्य विषयवादित्यर्थः । तदेव वक्तव्यमिति । अस्मिन्नस्येति सूत्रे, रसं खेशायं लब्ध्वानन्दी भक्तीत्येतदेव प्राप्यवानन्दहेतुत्वप्रतिपाद्कं विषयत्वेन वक्तव्यमित्यर्थः । इत्यानन्दमयधिकरणम् । अन्तराधिकरणम् (७) अन्तस्तद्धर्मोपदेशात् १ १-२१. आनन्दमयस्यैवादित्यमण्डलवर्तित्वमुक्तमिति । ननु 'जीवमुख्याण लिङ्गत्' इति सूत्रे, यश्धासावदित्ये इति वाक्यस्य विग्रहातिदेशकत्वमेिति वक्ष्य मणत्वात् कथमात्मैक्यपरत्वमिति चेन्न –उभयपरत्वस्य तत्रैव समर्थयिष्यमाणत्वाद दोषात् । कर्सकृतत्वं हि लोकप्रसिद्धमिति । करचरणादिभत्कभनीयदेहस्य तद्भोगोपकरणभूततया तत्कर्मार्जितत्वस्यैव वक्तव्यत्वादिति भावः । इदमुपलक्षणम् ।