पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अन्तराधिकरणम् १-१-७) ३७ ५४त इति श्रूयत इति, 'क्षतिकर्मभ्यपदेशात् सः : इत्यत्र ईक्षणस्य तत्वविषयत्वमेव वक्तव्यमिति मृषावादिभिरेव समर्थितत्वादिति द्रष्टव्यम् । भूवविहितसभासत्वादिति। यद्यपि, * अनेकभन्यपदार्थे', 'षष्ठी त्यदिसूलविहितेषु बहुीहित्पुरुषादिष्वप्यन्त्येव लक्षणा-तथापि शास्त्रमूललक्षणापेक्षया पुरुषवुद्धिमूललक्षणा दुर्वला । उपपादितं चेदम स्माभिः पाराशर्यवचस्युधामिति श्लोकव्यास्यानावसरे तत्रैव द्रष्टव्यम् । उपमानोपमेय वाचकशब्दसद्भावाचेति । तत्र समभिव्याहृतसामानाधिकरण्यनिवहाय यथातथा वास्तु । इह त्वसति बाधके तथाश्रयणमन्याध्यमिति भावः । मुख्य एवेति । मुख्य तुल्य इत्यर्थः । अभ्युपगन्तुमुचित इति यावत् । अनन्तरवाक्यस्थेति । 'तस्यो दिति नामेत्यनन्तरवाक्ये षष्ठयन्ततच्छब्देन परमात्मन एव परामर्शन उपासकस्य परामशसंभवादिति भावः । अक्षिविद्यायां च य एषोऽक्षिणीतेि स्थानस्योक्तत्वा दिति । ननु अन्तरादित्यविद्याप्रकरणान्नातस्यास्य वाक्यस्य अक्षिविद्यायां स्थानविधाय कत्वशङ्काया अप्रसक्तरप्रसक्तप्रतिषेधः । न च प्रकरणे निवेशासंभवात् प्रकृया। मक्षिविद्यायां निवेशशङ्का संभवतीति वाच्यम् – तर्हप्रकृतत्वाविशेषात् विद्यन्तरेऽपि निवेशशङ्का प्रसज्येतेति चेत् – उच्यते – 'हिरण्यश्मश्रुर्हिरण्यकेश आभणखा। सर्व एव सुवर्ण 'इति हिरण्मयविग्रहृविशिष्ट प्रस्तुत्थ, 'तस्यैतस्य तदेव रूपं थदमुष्य रूपम्’ इत्यतिदेशात् अक्षिविद्यावां रूषवत् तत्समभिव्याहृतस्थानस्यापि विधानमस्त्वित्या क्षेपस्य तत्परिहास्य च संभवादिति द्रष्टव्यम् । अक्ष्णः स्थानत्वे विहिते सतीति । ननु द्वेधा हि गुणानां भेदकत्वम्, उत्पतिशिष्टगुणावरुद्धे गुणान्तरस्य निवेशासंभवात् । यथा, 'सा वैश्वदेव्योमिक्षा। जिभ्यो वाजिनम्' इत्यत्रामिक्षावरुद्धे यागे वाजिनस्य निवेशासंभवात् कर्मभेद: ; प्राप्त कर्मण्यनेकगुणविधानासंभवाद्वा ; यथा विद्वाक्यविहितौणैभस्यमावास्यासंज्ञयोः कर्मणोः, यदाग्नेयोऽष्टाकपाल इति वाक्येन द्रव्यदेवतयोर्विन्नाने कर्मान्तरत्वं स्यादित्युक्तं पौर्णमास्यधिकरणे । न चेद्द तदुभयं संभवति । उभयोरपि स्थानयोरुत्पत्तिशिष्टत्वेन वा उत्पन्नशिष्टत्वेन वा विधानसंभवात् विद्याभेदाप्रसक्तः । अतएव पूर्वतन्ते, 'अष्टाकपालनवकपालादीनां 48