पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४०८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७८ श्रीरङ्गरामानुजमुनेिविरचिता द्रव्याणां युगपदनुपसंहरणीयानामध्येक्रस्लमपि जातेष्टौ गुणतया विधानमस्तु । ततश्च सर्वेषामपि द्रव्याणां उत्पतिशिष्टत्वम् उत्पन्नशिष्टत्वं ब्रा भविष्यती 'ति पूर्वपक्षः प्रवर्तित इति चेत् अत्र केवित् – “व एधेऽन्तरादित्ये हिरणमथः पुरुषो दृश्यत ' इत्येतदेव उत्पतिवाक्यम् । दृश्यते-द्रष्टव्यः योगिभिरित्यर्थः । ततश्चादित्यमण्डलस्य उत्पति शिष्टत्वात् तद्विरुद्धस्थानस्य तत्र निवेशासंभवात् वेिद्याभेदोऽवश्यं वक्तव्य त्यत्र तात्पर्यात् । ननु 'य एषोऽन्तरादित्य इति वाक्यस्य उत्पत्तिवाक्यत्वे, उत्पत्तिशिष्ट गुणावरुद्ध, * तस्य यथा कप्यास 'मिति वाक्येन सिद्धान्त्यभिमतस्य पुण्डरीक दलामलायताक्षत्वस्य वा, उदिति नास्रो वा कथं निवेश इति चेन्न – उत्पत्तिशिष्ट गुणावरुद्धे तद्विरुद्धगुणान्तरस्य निवेशासंभवेऽपि तदविरोधिनो गुणस्य विधाने अनुपपत्थभावात् । नन्वेवम्, 'सचैत्र प्रसिद्धोपदेशा'दित्यत्र उत्पत्तिशिष्टसार्वात्याव रुद्धे मनोमयवादिगुणविधानासंभवात् 'सर्वं खल्विद' िमित वाक्यं नोत्पत्तिवाबयमिति ग्रन्थकारोक्तिविरोधः, तत्राप्युत्पतिवाक्यत्वेऽपि विरोधाभावादित्येव परिहारसंभवादिति चेन्न-तदून्थस्यापि तदभिप्रयत्वान्न विरोध इति वदिन्त । वाक्यभेदः स्यादिति। यद्यपि सिद्धान्तेऽपि गुणविधित्वेन वाक्यभेदोऽस्ति, तथापि

  • प्रधानविधिवाक्यं खल्वङ्गवाक्येन संयुतम् ।

अङ्गप्रधानसंयुक्तां विधतेऽपूर्वभावनाम् ॥ इति न्यायेनाङ्गप्रधानविध्योर्वाक्यैकवाक्यत्वं संभवति । विद्याभेदपक्षे तदपि न संभवतीति भाव । विधेयत्वं गम्यत इति चेदिति । ततश्चोत्पत्तिवाक्यश्रुतं अन्तरादित्य इत्येतत् अविवक्षितमिति भावः । आशथमविद्वानाह-उपक्रमविरोव इति । आशयमुद्धाटयति उपक्रमेऽ प्यादित्यमण्डलस्येति । अनुवाद इति चेदिति । अविवक्षेति चेदित्यर्थः । रूपातिदेशानुपपतिथेति । 'तस्यैतस्य तदेव रूपं यदमुष्य रूपं । मेित्यति देशानुपपत्तिरित्यर्थः । नन्वियमक्षिविचैव भवतु, तथपि न रूपातिदेशानूपपत्तिः