पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथासति, उपासकानां भगवान् मोक्षद: इत्युक्तिमात्रेण तद्वाक्यपयोक्तुणां सर्वेषामपि अनुष्ठितोपासन'कत्वप्रसङ्गेन मोक्षप्रसङ्गः इति चेन्न - अतिसुकरस्य प्रणम्य रक्षा दीक्षारूपेष्टसाधनत्वमवगग्य तत् अन्येषामप्युपदिशना भाष्यकृता साप्यनुष्ठितेत्युक्त विरोधाऽभवत् । म प्रहृत्वे इनि हि धातुरिति । ननु भक्तिर्विन्तशब्दयोः प्रढूीभावावगमकत्वमुपन्यस्य भक्तिशब्दस्य प्रह्वीभावावगमकत्वोपपादकानुपन्यासेन नमेः तदुपन्यासोऽसङ्गतः । न व भक्तिशब्दे प्रभावावगमकत्वस्योपपादकनिरपेक्षता तदनुपन्यास इति वक्तुं शक्यम् । प्रत्युत भक्तिशब्दस्यैव ह्वोभावार्थकत्वस्य अप्रसिद्धत्वेन तदुपपादकसापेक्षतया तदुपन्यास एव [हेि] युक्त इति चेत्-मैवम् भक्तिविनतशब्दयोरैकार्थमवश्यं वक्तव्यम् । इतथा रक्षहेतुत्वं विनतेरुपन्यस्य तदतिरिक्तायाः भक्तेः प्रार्थने किं केन सङ्गतं स्यात् । अतो भक्तिांवेन्तशब्द योरैकथ्र्थात् प्रक्रमस्यन्तिशव्दाय, *णमु महत्वे ! इति स्मृत्यनुसारेण अर्थ कथिते भक्तशब्दस्याप्यर्थः कथितः । यथा

  • विदित: स हि धर्मज्ञः शरणागतवत्सलः ?

तेन मैत्रो भवतु ते यदि जीवितुमिच्छसि ॥ ) (श्रीमद्राम-) इत्यत्र गैश्याः शरणागतिरूपत्वसिद्रिः इति मत्वा, ' णमु प्रहृत्वे इति हेि धातुरित्यु क्तम् । न च नमेः प्रहृोभावार्थकत्वे विनतशब्दस्य न्यासोपासनाख्यविद्याविशेषनिष्ठपरत्वं न स्यादिति वाच्यम्-उपसर्गवशेन ज्ञानविशेषविशिष्टमहीभाववाचकत्वसम्भवेन विद्या विषयविषयिरूपेति । विषयो ब्रह्म ; उपासनफ़ले विषयिणी । न च उपासनस्य तृतीयाध्यायप्रतिपाद्यस्य विषयित्वेऽपि कथे.फलस्य चतुर्थाध्यायप्रतिपाद्यस्य विषयित्वमिति वाच्यम् - फलभूतायाः मुक्केरपि भगवदनुभवरूपतया विषयित्वेन क्रोडीकारसंभवेनादोषात् । भंतीति भुवनमिति । यद्यपि भुवनशब्दः , “भू स् धू भृस् जिभ्यश्छन्दसि ? इति छन्दसि वयुन्नन्तो ‘व्युत्पादितः । तथापि, * वा 1. एतद्वाक्य. ग. ।। 2. अनुष्ठितोपायत्वप्रसङ्गे. ग. ख. ) 8. उन्नेः. ख. । 4. अयं घ. पाठः ग.'कोशे, छन्दसि निपातितः इति । अन्यत्र, छन्दसि क्यन्नन्तो निपातित इति ।