पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ हस्वीकारे भगवदिच्छैन हेतुः; उयसक्रानुग्रहः फलम्; शुद्धसत्वं दव्यमिति भावः । पेटिकाभेदेति ! साधारणासाधारणशब्दविषयतयः पेटिकाभेद इत्यभिप्रायः । इत्यन्तरधिकर'म् आकाशाधिकरणम् (८) गतिरित्यादिवाक्यमुपात्तमिति । ततश्च गतित्वमेव विधेयमिति भावः । गतिः – प्राप्यमिति । आकाशः परायणमित्युरल वक्ष्यमाणत्वादिति भावः । परमात्मविषयत्वासम्प्रतिपत्तेरिति---यद्यप्येकोनसहस्राधिकरणन्यायेन परमात्म विषयत्वसम्प्रतिपतेिः सुवचा | किञ्च * यदेष आकाश आनन्दो न स्यात् ? इत्यादौ पूर्वाधिकरण एव प्रतिपादितपरब्रह्मप्रतिपादकताकानन्दवलीगताकाशशव्दस्य ब्रह्मणि प्रयोगः सिद्धः – तथापि कवित् बाधकबशात् अमुल्यवृत्या प्रयोगदर्शनमात्रस्य संशयहेतुतयोपन्यासो न युक्त इत्यत् तात्पर्यात् । कथञ्चिन्नेयत्वेनेति । इदमुप लक्षणम्, आकाशस्य जगत्कारणत्वे ज्यायस्त्वादिकं मुख्यमपि सम्भवतीत्यपि पूर्वपक्षतात्पर्ये द्रष्टव्यम् । रूढिशक्तेः स्थितत्वादिति । ननु रुढिशवतेरे, 'आत्मन् आकाशः सम्भूत ' इत्यत्र आत्मशब्दस्य स्वरूपपरत्वसम्पादकतया तस्या एव प्रथमोपपादककोटौ नेिवेशनीयतया तस्याः कथमुपाद्यकोटै निवेश इति चेत् – सत्यम्, रुढिशक्तिरेव मूलयुक्तिः । अथापि तस्य निरपवादत्वे आत्मन आकाश इत्यन्नात्मशब्दस्य स्वरूपपरत्वं ज्यायस्त्वादिगुणानां कथञ्चिन्नेयत्वञ्चोपजीव्यम् । अत एव स्थितत्वादित्युक्तम्। निरपवादतया स्थितवा दिति हि तदर्थः । न चैवं रूशिक्तौ स्थितायां ज्यायस्वादीनामन्यथानयनम् तदन्यथानयने च रुद्विशक्तिस्थितिरिति अन्योन्याश्रय इति शंक्यम् - आत्म शब्दस्ख ज्यायस्त्वादीनां सम्भवदन्यथासिद्धिकतया रूढिशक्तेः सितत्वादाका शाशब्दः प्रसिद्धाकाशपर इति फलफलेिभांवकथने विरोधाभावात् । तदनु रोधादैक्यहानमिति । धर्मिग्राहकप्रमाणविरोधाभावादिति भावः । नन .