पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ते व्यपि प्यत् " इत्युक्त्यनन्तरमपरिज्ञानेन प्रराव व भूपःस्य प्रदर्थमानया तल याधकानुपलम्भादिति द्रष्टव्यम् । श्रत्युदाहरणमिति -प्रतिवाक्यमित्यर्थः । प्रवृति हेतुभूतज्ञानचिकीर्षे व इत्यस्यानन्तरम् उच्येते इति विपरिणामेनानुषङ्गः । श्रौतस्याप्यादिशब्दाक्षत्वे सम्भवतेि तत्यागोऽनुचित इत्यभिप्रेत्याह - यद्वा यदा वै पुरुष इति । प्रकरणमात्रस्य पूर्वपक्षावलम्बनत्वेनेति संनिधिलक्षणाब्रह्माय पाठमात्रेणेत्यर्थः । ततश्च भाप्येोक्तरीत्या ब्रलिङ्गान्यश्चासिद्धिरेव पूर्वपक्षहेतुः । तत्र परोक्तः प्राथपाठोऽनुप्राहकोऽस्त्विति भावः ! बुद्धाक्नारोहादिति छेद । ननु “प्राण इति होवाच सर्वाणि ह वा इमानि भूतानेि प्रणमेवाभिसंविशन्ति प्राणमभ्युज्जिहृते । सैषा देवता प्रस्तावमन्वायला”, “ आदित्य इति होवाच सर्वाणि हवा इमानि भूतान्यादित्यमुचैस्सन्तं गायन्ति सैषा देवता उद्वीथमन्वायला”, “अन्नमिति होवाच सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानेि जीवन्ति सैषा देवता प्रति हारमन्वायत्त”ति प्रस्तावोट्रोश्रप्रतिहारभक्तयनुगतत्वेन देवतत्वेन च निर्दिष्टेषु प्रणादि त्यान्नेषु भास्यैव परमात्मत्वम्; आदित्यान्नयोस्तु न तथात्वमित्यख किं वेिनिगमकम् वेतनवाधिदेवताशब्दस्त्रिष्वपि समानः, आणवाक्यशेषे प्रसिद्धप्राणासम्भावितासङ्कुचित सर्वभूतसंवेशनोद्भमनाधारत्वस्य श्रवणवत् आदित्यान्नवाक्यशेषयोरप्यसङ्कुचितसर्वभूत गेयत्वस्य सर्वभूतोपजीव्यवस्थ च प्रसिद्धान्नादित्योरसम्भावितस्य श्रवणभवेिशिष्टम् । यदि च आदित्यवाक्ये सर्वभूतशब्द आदित्यगनयोग्यचेतनविशेषपरतया, अन्नवाक्य शोधे च अन्नेोपजीवनयोग्धश्चेतनविशेषपरतया च सङ्कोच्यते । चेतनवचिदेवता शब्दश्च “ अभिमनिव्यपदेशस्तु विशेषानुगतिभ्यां " इति नविलक्षणत्वादित्यधि करणगुणसूत्रोक्तन्यायेनाभिमन्देिवतापरतया च योज्यते--तहिं प्राणेऽपि तथाऽस्तु विशेषाभावादिति चेत्-उच्यते | प्राणशब्दस्य “प्राणबन्धनं हि सोभ्य! मन:', प्राणस्य प्राणम्' इत्यादिषु परमात्मन्यपि निरूढलक्षणा अस्ति, वाक्यशेषस्वास्य मप्यस्तीति परमात्मपरत्वम् । नैवमदित्यान्नशब्दयोः । ततश्चादित्यान्नशब्दौ तद् धिष्ठातृदेवतापरौ, चेतनवाचिदेवताशब्दस्य प्रश्प्रतिवचनगत्स्यावेलने अन्नेऽसम्भवात्,