पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९० श्रीरङ्गरामानुजमुनिवेिरचेिता अन्नशध्दतदभिमानिदेवतापरः । देवताश्च भृतोपजीव्यत्वं तदधिष्ठयान्नेनाभेदारोपेण (भेदोपचारेण) उपपद्यते । * सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैन्स्-तं गायन्ती । ति प्रतिपादितं सर्वभूतगेयत्वं परमात्मनोऽपि न सम्भवति । भूतशब्द हेि प्राणिनि काये महाभूते च रूढः । महाभूतस्य गातृत्वप्रसतेरेवाभावात् प्राणिनिकायपरत्वं वक्तल्यम्, तदपि न सम्भवति । न हि सर्वे प्राणिनः परमात्मनं गायन्ति, स्थावरेषु पश्चदिषु चाभावात् । तस्माद्भानयोग्यआणिविशेषपरत्वेन सङ्कोचः परमात्मपत्वेऽप्य वश्यक इति आदित्यशब्दस्य लोकव्युत्पत्तिविरुद्धपरवं नाश्रयणीयम् । एवमन्नवाक्य शेषेऽपि “प्रतिहरमाणानी ' ति भक्ष्यमाणत्वं न परमात्मनो मुल्यम् । अस आदित्यान्नशब्दितस्याब्रह्मत्वेऽपि प्राणशब्दितस्य ब्रह्मत्वं सिद्धमिति भावः । ३ति प्राणाधिकरणम् । ज्योतिराधिकरणम् (१०) ज्योतिश्चरणाभिधानात् १-१-२५. आकाशादिशब्दत्रयं-सिद्धान्तिमिति । सिद्धान्त्यभिमतमित्यर्थः । ततश्च शब्दत्थस्यापि सिद्धान्तरीत्या परमात्मवात्वेिन कार्यकारणभावापन्नाकाशवायुतेजो रूपभूतत्रयवाचित्वाभावात् तत्प्रयुक्ता सङ्गतिः कथं सिद्धयेदिति भावः । न लिङ्गा पत्वं विवक्षितमिति । एकवचनादेकत्वं न विवक्षितम् । “ अध्यात्मसम्बन्धभूम सस्मिन् ’ इति सूत्रकृतैव भूयसां लिङ्गानामुपन्यासादिति भावः । नन्वेवं सति पूर्वपक्षोत्थितिः कथमित्याशङ्कयाह-विश्ववतः -कृत्स्रभूमि प्रदेशादिति । भाष्ये निरतिशयदीप्तियुक्तोऽर्थः किमदित्यादिज्योतिरेव, उत पुरुषोत्तम इतेि कोटिये प्रदर्शनीये आदित्यद्ज्यिोतिरेव कारणभूतं ब्रहेति प्रदश्यैते । न च तद्युज्यते, निरतिशयदीप्तियुक्तस्य कारणभूतस्य ब्रह्मत्वे पूर्वपक्षिसिद्धान्तिनो किंवादादर्शनादिति यथाश्रुते अनुपपत्त्युद्धाटनपूर्वकं कारणं ब्रक्षेत्ययमंशोऽपि