पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९१ ८ ) भाप्ये परमात्मत्वव्याप्तलिङ्गविशेषादर्शनादिति । नन्वेवं कारणत्व थाप्तनिरतिशयदीप्तियोगादित्युत्तरप्रन्थेो बिरुद्धचेत; निरतिशयदीप्तियोगस्य परमात्मत्व त्याप्तकारणत्वव्याप्तत्वेन, “व्याप्यव्यांप्यस्य सुतरां व्याप्यत्वम् ?” इति न्यायेन निरति शयदीप्तियोगस्यापि परमात्मत्वव्याप्यत्वात् । न च दीप्तर्जगत्कारणत्वव्याप्त्यनभ्युपगमेन पूर्वपक्षः, तथा सति कारणत्वव्याप्तनिशतिशयदीप्तियोगादिति ग्रन्थविरोधापतेः । न च सभस्तचेतनाचेतनं प्रति अभिन्ननिहितोपादनबलक्षणं कारणत्वं ब्रह्मलिङ्गम्; तच न स्क्वाक्योपात्तामेति वाच्यम्--'जगत्कारणं (कारणभूतं ?) ब्रह्मा भवन् 'इत्युक्तयनुपपतेः। जन्मादिसूत्रप्रतिपाद्यजगत्कारणत्वमभ्युपेयैव पूर्वपक्षप्रवृत्तिदर्शनादिति चेत्-उच्यते । आकाशप्राणादाविव जगत्कारणत्वादिरूपत्रह्मलिङ्गानुपलम्भान्न परमात्मपरत्वमित्येव पूर्व पक्षिणः संरम्भः । न च निरतिशयदीप्तिरूपं जगत्कारणत्वज्याप्तमुपलभ्यत इति शङ्कयम्

  • अथ यदतः परो दिवो ज्योतिदीप्यत ? इत्यत्र दीप्तिमात्रप्रतीतावपि निरतिशय

दीप्त्यतीतेः, दीप्यत इति श्रूयमाणा दीप्तिश्च रूपवत्पदार्थनिष्ठा भवतीत्यभि प्रेतमिति दीतेरपरमात्मत्वहेतुतयैवोपन्यासेन कारणत्वाक्षेपकतयाऽनुपन्यासात् । प्रसिद्ध मादित्यादिज्योतिरेव ज्योतिश्शब्दितमिति वदतः पूर्वपक्षिण , “न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्त ?’ इति वाक्यप्रतिपाद्यादित्याद्यभिभावकतेजसा ऐक्याभ्युपगमायोगात् । तदैक्याभ्युपगमे ‘च, ‘अदृश्यत्वदिगुणक:, ‘द्युभ्वाद्यायतन' मित्यादौ तस्य परमात्मत्वप्रतिपादनादेव * अथ यदतः पर) इति वाक्यार्थनिर्णयस्यापि सम्भवेन एतदधिकरणविचारवैफल्यात् । तस्मात्परमात्मंत्वव्याप्तस्य व्याप्तव्याप्तस्य वा लिङ्गस्यानुपलम्भात्, “इदं वाव तद्यदिदमस्मिन् अन्तःपुरुषे ज्योति ? रिति ज्योति रात्मकतया उपास्यं ज्योतिः प्रसिद्धमादित्यादिज्योतिरेवेत्येव पूर्वपक्षिहृदयम् । कारण वाक्यसमन्वयाध्यायसङ्गतिलेोभादयोगव्यक्च्छेदार्थप्रथमपादसङ्गतिलोभाच परमात्म कारणत्वाक्षेपथैवसायपि प्रसजेदिति भाष्यटीकयोः सूचितमिति न तत्रभिनिवेष्टव्यमिति