पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९२ श्रीरङ्गराभानुजमुनिविरचिता ग्राकृततेजस्तत्वकार्येतयेति -ब्रह्ममुख्वप्रसूनत्वादमित्राह्मणयोः, “ 3 ब्राह्मणः १) इत्यादिनिर्देशावदिति भावः । *तस्यैपा दृष्टिः ” । तस्य केोक्षेयज्योतिप अयं दर्शनोपायः; यन्न-यस्मिन् काले अस्मिन् शरीरे हस्तेनोपलब्धे संस्पर्शनोष्णमानं विजानाति । तस्यैषा श्रुतिः - श्रवणोपायः । कर्णावपिगृह्य - कर्णो पिधाय निन्दमिव-रथध्वनिमित्र, नदधुमिव-ऋषभकूजितमिव ज्क्लतोऽग्नेवि शब्दं शृणोति। स शब्दः .. अभ्यन्तरस्य जठरान्नेः शब्द इत्यर्थ । पिहितकर्णपुटेनोपलभ्यमानस्य शब्दस्य बाह्यत्वासम्भवादान्तरत्वमुपेयमिति भावः । ब्रह्मणोऽप्युपपद्यत इति यद्यपि सौर्यादेस्तेजसः सावयवत्वेन तदेकदेशस्य मर्यादासम्भवात् तस्य चोपस्यत्वेन विधानं सम्भवेत् ; ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपतेः, अवयकल्पनायाश्च सत्यां गतावयुक्तत्वादिति तयोर्वैषम्यं शङ्करभाष्यवाचस्पत्योरेव दर्शितम् तथाऽपि * अन्तस्तद्धर्मोपदेशात् ” इत्यत्रैव भर्यादारूपबत्वादीनां ब्रह्मणि सम्भवस्य प्रदर्शिततया न पूर्वपक्षसाधकत्वमित्यभिप्रेत्य भाप्ये अनुदाहृतमित्यभिप्रायः । विद्यानुकूलसकलफलप्रदत्वादिति । “अन्नादो वसुंदानः “इत्यादिश्रुतेरिति भावः। कचिन्न दृश्यत इति-कचिदपि न दृश्यत इत्यर्थः । “विश्वस्मादिन्द्र उत्तरः, “अमिस्सर्वा देवताः ? इति वाक्यद्वयं प्रकर्षभतिपादकम् । “तस्य वज्र मादाय,” “ अमेिं वै जातम्” इत्यादि तद्वाधकं द्रष्टव्यम् । “जनितेन्द्रस्य जनितोऽत विष्णोः” “तद्वैतद्धोर आङ्गिरसः कृष्णाय देवकीपुलायोक्तोवाच, अपिास एव स बभूव । इत्यादिभिर्मन्त्रार्थवादैः परमात्मनोऽपि कार्यत्वं कर्मवश्यत्वमस्तीत्यत आह अनन्यपरवाक्येनेति । एषा वैष्णवीति । “इदं विष्णुः प्रक्षस्य विष्णु प्रकाव्यमुशने बध्रुवाणो वाराहृमन्यं पुरुषबते चे' ति पुरुषसूक्तं प्रस्तुत्य, “एषा वैष्णवी नाम संहिते ! ति संहितांया वैष्णवत्वश्रवणदिति भावः । ऋचा तु पुरुषोत्तममित्यादिनेति । पुरुषसूक्तगतानां षोडशानां ऋचां षोडशसूपचारेषु विनियोगादिति भावः । नारायणानुवाकैकाथ्यांचेति-नारायणानुवाके, “विश्वमेवेदं पुरुषः ? इति श्रुतत्वेन तस्य, “पुरुष एवेदं सर्वम् ? इति पुरुषसूक्तगतवाक्येन प्रत्यभिज्ञानादिति भावः । केचिदिति । मृषावादित इत्यर्थः । ते शेवमाहुः-- सर्वाणि भूतानि स्थावरजङ्गमात्मकानि अस्य परमात्मन एक: पाद , अस्य त्रिपादममृतं