पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ श्रीरङ्गरामानुजमुनिविरचेिता सिद्धं ब्रह्मत्वसाधकं लिङ्गम्; अपि तु प्रकृतसर्वभूतचरणाभेदसम्भावकमात्रम्, अत एव प्रत्यभिज्ञापकमित्युक्तमिति ध्येयम्। अनुवादलक्षणयच्छब्दसमभिव्याहारेणेति । यच्छब्दसम्बन्धेन द्युसम्वन्धिज्योतिषेोऽयमनुवादः प्रतीयते । स च प्राप्तिमपेक्षते प्रप्तिश्च द्युसम्बन्धित्वेन । तच सर्वभूतपादस्य ब्रह्मण इति तदेव बुद्धौ विपरिवर्तमानं यच्छब्देन ग्रहणार्हम्; नप्रसिद्धं ज्योतिः। तस्य द्युसम्बन्धितया बुद्धौ अविपरिवृतेरिति भावः । प्रथमप्रतिपन्नयच्छब्दश्रुत्येति । न च यच्छछंद एव ज्योतिश्शब्द स्वारस्याबाधाय प्रकृतपरामत्विं परित्यज्य ज्योतिश्शब्दोपस्थापितप्रसिद्धज्योतिः परामर्शीं स्यादिति वाच्यम्-सनान्नां समानाविकृतशब्दस्वारस्थमतिलङ्कयापि कृत परामर्शित्वस्य व्युत्पत्तिसिद्धतया यच्छब्दानुसारेणैव ज्योतिश्शब्दस्य नेयत्वात् । अत एव प्रयुक्तिलक्षणे, “तते पयसि दध्यानयति सा वैश्वदेव्यामिक्षः वाजिभ्यो वाजिनम्। इति श्रुतावमिक्षपदवाच्यं पयसोऽर्थान्तरं दधिपयस्संसर्गजन्यं द्रव्यमभ्युपेयम् पयः, आमिक्ष इति व्यपदेशभेदादिति -तस्यैव द्रव्यान्तरस्य कठिनस्य मधुराम्लरसस्य वैश्वदेवयागद्रव्यत्वे, आमिक्षपदसमानाधिकृतत्पदस्यऽपि तद्द्रव्यपरत्वे च प्राप्त सर्वान्निः प्रकृतपरक्स्वाभाव्यात् तत्पदमानयनक्रियां प्रति प्रधानकर्मतया दध्या नयनाधिकरणत्वेन निर्दिष्ट एयः परामृशतीति पय एव यागद्रव्यम् । तत्पदे स्त्रीलिङ्ग मामिक्षापदसामानाधिकरण्यकृतम् । आमेिक्षापदं तु न संसृष्टद्रव्यान्तरविधायकम् । किन्तु अस्मादेव वैदिकव्यवहारात् घनीभूतपयोमालवाचकम्; न तद्भद्र(तज्जन्य)व्यान्तर वाचकम् । अम्लरसोऽपि न थागद्रव्यगतः, किन्तु तत्संस्कारकद्रव्यगत इति पयोरूपा क्षिप्रयुक्तमेवेदं दध्यानयनम्; न वाजिनप्रयुक्तमपीति निर्णीतं चतुर्थ४-१-९)। “दधि मधु घृत धानाः करम्भा उदकं तण्डुलः तत्संसृष्ट प्राजापत्यम् ?' इति चित्रायागवेिधौ दध्यादिसप्तद्रव्यंमेलंनरूपसंमृष्टद्रव्यक एको यागः । तत्पदं च संसृष्टपरमेिति प्राप्त तत्पदं प्रकृतपरामर्शत्वस्वामाव्यात् असंसृष्टसप्तद्रव्यादिपरम् ; न तु संसृष्टकद्रव्य परमिति दध्यादिसप्तद्रव्यकः स्यागः । सप्तस्वपि द्रव्येषु तदिति नपुंसकैकवचन निर्देशः “ नपुंसकमनपुंसकेने ? त्यनुशासंनत् िउपपादनीय । संमृष्टपदं तु याग भेदेऽपि एकंदेवत्यतया सान्नाय्यवत् दध्यादीनां सह प्रक्षेपे संसर्गसत्त्वात् तदनुवादकं योज्यिितः िनर्णतं दुष्टीकायामष्टम्द्वादशाध्याययोः ।