पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (ज्योतिराधिकरण १-१-१०) ३९९ विश्वावं सम्भवतीति भावः । अन्यार्थत्वमेवोपपादयति – गानवाणाभ्यामिति । पाविध्यं च विवक्षुरिित चारद गायत्रीशब्दवाच्या चसमुच्चीयते ननु शरीरशब्दस्य निष्कर्षकशब्दतया कथं गायत्रीसमानविक्ररण्येन निर्देश इत्याशङ्कयाह-भूतपृथिव्योगायत्रीसमानाधिकरण्येनेति । प्राणशब्दस्य जीव परत्वं केचिदाहुरिति । भूतप्राणशब्दौ एकाथै । ततश्च पृथिवीशरीरहृदयानां भूतष्ठित्वसाभ्यादन्योन्याभेदव्यपदेश उपपद्यत इति मृषावादिन आहुरित्यर्थः । भूतप्राणशब्दयोरिति । “अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् ', * अस्मिन् हीमे प्राणां प्रतिष्ठिता:’ इत्यनयोरित्यर्थः । षाङ्गविध्यं च निगमयतीति । ननु “ सैषा ऋतु प्यदे ? ति ब्रह्मणः प्रतिपादनं न सम्भवति । * कृची ' ति ऋचि बांच्यायामेव द-ताट्टापो विधानादिति चेन्न – ब्रह्मणि ऋगभेदारोपेण टप्प्रत्ययोपपत्तेरिति

ननु “ तानस्य महिमेति साक्षिप्तयोदाहृतो मन्त्रः पुरुषसूक्तगतः । तत्र धं तावच्छब्दः, * स भूमिं विश्वतो बृत्वे 17 ति प्रकृतभूमिमात्रपरः । स कथं मन्त्रः चतुष्पात्वरूपमहिमानुवादी स्वादित्याशङ्कयाह-स भूमि विश्वतो वृत्वेत्युक्त्वेति । अन्तर्गतानीति । ततश्च स भूमेिं विश्वतो वृत्वेत्यनेनैव चतुष्पात्वमहिम्नः प्रतिपादन सम्भवात् तस्रत्येन तावानस्येत्यनेन तदनुवादः सम्भवतीति भावः । जाग्रदाद्यवस्था त्रयोपलक्षितं बाह्यशारीरहार्दरूपेणेति । जाग्रदाद्यवस्थासञ्चारभूमेिबाह्यशारीरहार्दा काशस्थितविश्धतैजसमाज्ञरूपादलयोपलक्षितमित्यर्थः । कारणस्वरूपमिति। द्योतमाने आमस्वरूपे अवस्थितमपरिच्छित्रं परमार्थभूतमात्मस्वरूपं वेत्यर्थः । एवं हि वाचस्प तिन। व्याख्यातम् । तप्रकारश्चास्माभिः पूर्वमेव प्रदर्शित । चतुष्पाद्र वाकूपादः प्राणः पाद् इत्यादि । यद्यत्र वाक्पादः आणः पांद इत्यादिना ब्रह्म प्रतीकस्य मनस एव पादाः कथ्यन्ते, अभिः पादो वायुः पाद इत्यादिना व ब्रह्म प्रतीकस्याकाशस्य पादाः कथ्यन्त इति मतम्-तदा, “प्राची दिक् कला प्रतीची दिक् कला दक्षिणा दिक् कला उदीची दिक् कला। एष वै सोग्य चतुष्कलः पादो ब्रह्मणः’ इति समतिपत्रमुदाहरणान्तरं द्रष्टव्यम् । अत्र च वक्तव्यं सर्वम्, बुद्धयर्थः पाद्वदित्यत्र स्पष्टयिष्यते । पुरुषसूक्त प्रक्रियानुगुण्यादिति । तावनिति मन्त्रस्य तल परिच्छेद