पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८० श्रीरङ्गरामानुजमुनिविरचिता युदासकत्वदर्शनदिति भावः । अनन्तरवाक्यानुगुण्यादिति । तदेतत्पूर्णम् प्रवर्ती ! त्यनन्तरवाक्ये परिच्छिन्नशङ्कायुदासकत्वदर्शनेन तदानुगुण्याच्चेत्यर्थः हृदयस्थाकाशम्येति । हृदयस्य स्तुत्यर्थे हार्दाकाशस्य महत्त्वं वक्तमित्यर्थ ननु तदेत्पूर्णमिति काश्ये अध्यवहितत्वान् हृदयमाल एव ब्रहोपासनं विधीयते; न तु गायत्र्याख्यस्य चतुष्पाद्रह्मणः: तस्य विच्छिन्नत्वात् । [अत:ज्योति स्य ग्रहणमित्याशङ्कयाह-नाव हृदयमात्रमिति । सप्तम्यश्रवणादिति । हृदि ब्रहोपासीतेति हृदयान्तर्वर्तिब्रह्मोपासनाश्रवणादित्यर्थः । ननु *तस्य ह वा एतस्ये 'त्यादिविहितद्वारपेोपासनेन गायत्र्युपासनप्रकरणं विच्छिझमियाशङ्कय तस्याङ्गतया न व्यवधायकत्वमित्याह - अथ ब्रह्मोपासनाङ्ग त्वेनेति । “चक्षुष्धः श्रुतो भद्रती ? त्यस्यार्थमभिप्रायं चाह – आभिरूप्यकीर्ति मत्वेतेि । ज्योतीरूपत्वेनोपासनेति । ज्योतिश्शरीरकतयोपासनेत्यर्थ । कार्येत्पत्तप्रसङ्ग इति । न चानुत्पादनवत् उत्पादनस्यापि ईश्वरा धिष्ठानसापेक्षत्वात् नेत्यदनापादनं युक्तमिति वाच्यम् – तर्हि स्वापे उभयोरपि बेिरहप्रसङ्ग इति तात्पर्यम् ! यत् सान्नानि मेधयाऽजनयत्पितेतेि – अत्र बुद्धिौकर्यार्थ व्याख्यास्यमानां श्रुतिर्लिख्यते--

  • यत्सप्तान्नानि मेधया तपसाऽजनयत्पिता । एकस्य साधारणम् द्वे देवानभ

जयत् । स्रोण्यात्मनेऽकुरुत क्षुभ्य एकं प्रायच्छत् । तस्मिन् सर्वे प्रतिष्ठितं यश्च प्राणिति यश्च न । तस्मातानि न क्षीयन्ते अच्छमानानि सर्वदा | यो वैतामक्षितिं वेद सोऽन्नमति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवतीति शोक; । यत्सप्तन्नानि मेधया तपसाऽजनयत्पितेति । सेधया हि तपसाऽजनयत्पिता । एकस्य साधारणमिति । इदमेवास्य तत्साधारणभन्नम्, यदिदमन्नमद्यते । स य एनमुपास्ते न स पाप्मनो व्याव तते मिश्र होतत्। द्वे देवानभाजयदि,ि हुतं च प्रहुतं च । तस्माद्देवेभ्यो जुहृति प्र च जुद्दन्त । अथो आहुः दर्शपूर्णमासावित । तणावेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति । तत् पथ । यो खेवाग्रे मनुष्याश्ध पशवश्चोपजीवन्ति ।