पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ श्रीरङ्गरामानुजमुनेिविरचिता चतुर्मुखोत्पत्तेः पूर्वमेवेति । वापतमोगुणोपधिकतया रुद्रः, प्राणमयो रजोगुणोपाधिकतया चतुर्मुखः, मनोमयस्तु सत्त्वोपाधिकतया विष्णुरिति सिद्धत्वात् रुद्रपलीकद्विोश्चतुर्मुखजनेिरुक्ता स्यादिति भाव । शैलालिब्रह्मण शतपथब्राह्मणादिकं समन्वयत्रे द्रष्टव्यम् | योजना त्वखरसेति । न च सिद्धान्तेऽपि तमस्त्वावस्थाया अनादित्वाद्रिभागस्य च जन्नरूपत्वाभावात्, तमस्सञ्जायत इति वाक्यस्वारस्यं नास्तीति वाच्यम् - विभागरूपाक्स्थान्तरसम्वन्धमादाय सञ्जायत इति प्रयोगोपतेरिति भावः । अक्षरं तमसि लीयतु इति लयश्रवणविरुद्धा चेति – अक्षस्त्वावस्थाया आद्यावस्थावोक्तिरिति शेषः । किञ्च स्वप्रकरण इति । तदक्षरे परमे व्योमन्निति प्रकरण इत्यर्थः । स्थानविशेपस्य संनिहितत्वाच्चेति ।

  • ते ह नाकं महिमानस्सचन्त' इति स्थानविशेषस्य संनिहितत्वादित्यर्थः ।

ननु तमसः परस्तादित्यस्य परस्वरूपगततमोवैलक्षण्यतिपादकत्वाभावे परमात्मस्वरूपस्य सर्वगततया परस्तदित्युक्तयनुपपतिरित्याशङ्कयाह-देशविशेषवर्तिपरमात्मविशेषण त्वोपपत्तेरिति । विग्रहविशेषविशिष्टपरमात्मस्वरूस्य तमःारवर्तित्वं सम्भवतीति भावः । अतस्तमसः परस्य स्थानस्येति । तमोभिागरूपस्य मुक्तपरमात्मस्थानस्य प्रयज्ञिानासम्भवादित्यर्थः । उपदेशभेदान्नेति चेत् नोभयस्मिन्नप्यविरोधात् १-१-२८. सप्तम्यन्तर्बहिरिति । पुरोवदिवाक्यगताया अपि अनेकार्थसाधारण सप्तम्याः अनुवादिवाक्यग:lया अपि एार्थनियतया पञ्चम्या कांस्यभोजिन्यायेन अर्थनिर्णयेो भवतीति भावः । यत्र हि गुरोः कांस्यभोजननियमो नास्ति, शिष्यस्य तु सोऽति, तत्र क्रमेणेोभयोरेकपात्रभोजने प्रसक्त गुरुणाऽपि गुणभूतं शिष्यमनुसृत्य कांस्यभोजनमेषाद्रियते । सोऽयं कांस्यभोजिन्थायः । स्थानविशेषादपरिस्थिति िित। स्थानविशेषस्योपरिस्थितिरिति पाठःसमीचीनः । अतर्थप्रत्यययोगे, षष्ठयतसर्थ प्रत्ययेनेति षष्ठया एव युक्तत्वात् । इति ज्योतिरधिकरणम् ।