पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८५ इन्द्रमाणाधिकरणम् (११) कारणत्वाक्षेपकेति । जीववेिशेषकारणत्वधिकलिङ्गभूयस्त्वमित्यर्थः । श्रुतायुष्युक्तांशो लेिल्यते –“ प्रतर्दनो ह वै दैवोदसिरिन्द्रस्य प्रियं धामोप जगाम ) मनुष्यस्येन्द्रलोकगमने हेतुमाह – * युद्धेन च पौरुषेण च ।' युद्धपौरुषाभ्यां प्रीतस्येन्द्रस्य धाम जगामेत्यर्थ । * तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति । स होवाच प्रतर्दनः, त्वमेव वरं वृणीष्व ये त्वं मनुष्याय हेिततमं मन्यस इति । तं हेन्द्र उवाच एतदेवाहं मनुष्याय हेिततमं मन्ये यन्मां विजानीयात् । त्रिशीर्षाणं स्वाष्ट्रमहनम्; अरुन्मुखान् यतीन् साहावृकेभ्यः प्रायच्छम्; बद्दीस्सन्धा अतिक्रम्य दिवि प्राह्यादीनतृणहम् अन्तरिक्षे पौलोमान् पृथिव्यां कालकःान् । तस्य मे तत्र न लोम चामीयते । स यो मां विजानीयात् नास्य केन्च कर्मणा लेोको गीयते । मातृवधेन् न पितृवधेन न स्तेयेन न भ्रूणहत्य, नास्य पापं चकृषो मुखं नीलं वेति । स होवाच प्राणोऽस्मि ज्ञात्मा तं मामायुग्मृतमेत्युपास्स्व आयुः प्राणः प्राणो वा आयुः प्राण उवा अमृतम्। याबद्धामिन् शरीरे प्राणो वसति तावदायुः । प्राणेन ह्येवामुष्मिन् लोके अमृतत्वमाझेो.ि प्रज्ञया सत्यसङ्कल्पभितेि । स यो मामायु मृतमित्युपास्ते सर्वमायुरस्मिन् लोके एति आोत्यमृतत्वम्'-इन्द्र उवाच “अतित्वे च प्राणानां निःश्रेयसम्’ इति | मुख्षप्राणस्यास्तित्व एवेतरेषामिन्द्रियाणां श्रेय इत्यर्थः । तदेवोपपादयति, “जीवति हि वापेतो मूकान् हि पश्यामः। जीवति चक्षुरपेतोऽन्धान् हि पश्यामः”इति- अथ खलु प्राण एव प्रज्ञात्मा इदं शरीरं परिगृह्योत्थापयति । तस्मादेत देवोक्थमुपासीत । यो वै प्राणस्सा प्रज्ञा था वै प्रज्ञा स प्राणाः ! सह खेतावसिान् शरीरे बसतः । सहोत्क्रामतः तस्यैवैव दृष्टिः एतद्विजानाति यत्रैतत्पुरुषस्सुप्तः स्व न कथञ्चन चक्षुस्सर्वे रूपैस्सहाप्येति श्रोतं सवैश्शब्दैस्सहाप्येति मनः सर्वध्यनैस्सहाप्येति, स यदा प्रतिबुध्यते यथाग्नेर्विस्फुलिङ्गा विप्रतिष्ठरम् एवमेतसादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते, भाणेभ्यो देवा देवेभ्यो लोकाः