पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ श्रीरङ्गरामानुजमुनिविरचितः

  • यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणम्सह द्यावस्मिन् शरीरे

वसतः । सहोक्रामतः, अथ खलु यथा प्रज्ञायां सर्वाणि भूतान्येकीभवन्ति तद्याख्यास्यामः - वागेवास्या एकमङ्गमदूदुहत् तम्याति नाम परस्तात् प्रतिविहितः भूतमात्रा। घ्राण एवास्या एकम अटूदुहत्, तस्य गन्धः परस्तात् प्रतिनिहिता भूतमात्रा । चक्षुरेवास्या एकमज्ञे अटूदुछत् तस्य रूपं परस्तात् प्रतिविहिता भूतमाला। श्रोत्रमेवास्या एकम अदृदुहृत् तस्य शब्दः परस्तात् प्रतिविहिता भूतमात्रा, जिहैवास्या एकमङ्गं अदुहत, तस्या रसः प्रतिविहिता भूतमाला । हस्तावेवास्या एकभङ्गमदूदुहत्, तयोः कर्माणि परस्तात् प्रतिविहिता भूतमात्रा ! शरीरमेवास्या एवभङ्गमुदृदुहृत् तस्य सुखदुःखे परस्तात् प्रतिविहिता भूतमात्रा । उपस्थ एवास्या एकमङ्गमदृदुहृत् । तस्यानन्दो रतिः प्रजतिः प्रतिविहिता भूतमाला, पादावेवास्या एकमङ्गभदूदुहत, तयोरित्याः परस्तात् प्रतिविहिता भूतात्र, प्रशैवास्या एकमङ्ग मदूदुहत्, तस्यै धियो विज्ञातव्यं कामाः परस्तात् प्रतिविहिता भूतमात्रा । । इन्द्रियाणां मध्ये बागेवास्याः प्रज्ञाया एकमवयवमदुहत्, पूरितवती सम्पादितवती तस्याः वाचस्सकाशात्, प्रज्ञायाः परस्ताद्भागे नामरूपा भूतमात्रा आहिता भवति । विषयाणां प्रज्ञांशत्वादिति भाव । एवमुत्तरत्रापि द्रष्टव्यम् । “प्रज्ञया वाच समस्या वाचा सर्वाणि नामाल्यामोति, प्रज्ञया प्राणं समारुह्य सर्वान् गन्धानामो ती'त्यादि । “प्रज्ञयैव धियं समारुह्य प्रज्ञयैव धियो विज्ञातव्यं, कामानाप्नोति'; मनसा संयुक्तानि वाहेन्द्रियाणि स्वकार्यक्राणीत्यर्थः । तदेवोपपादयति –“नहि मज्ञापेता वाङ्नाम किञ्चन प्रज्ञापयेत् अन्यत्र मे भनोऽभूदित्याह नाहमेतं नाम प्रज्ञासिषमिती! त्यादि । “न वाचं विजिज्ञासीत वक्तारं विद्यात् । न गन्धं विजिंज्ञा ीत घ्रातारं विद्यत्' इत्यादि । “न इत्या विजिज्ञासीतं एतारं विद्यात् ' । इत्यां : गम-नीत्यर्थः । “ न मनो विजिज्ञासीत मन्तारं विद्यात् ता वा एता दशैव भूतात्रा अधिग्रज्ञ दश प्रज्ञामाता अधिभूतम्। यद्धि भूतभात्रा न स्युः न प्रज्ञामात्राः स्युः, यद्व। प्रज्ञामात्राः न स्युः न भूमात्राः स्युः न ह्यन्यतरतो रूपं किञ्चन सिद्धयेत्। नो एवैनन्नाना”, मालाद्वयमप्यन्योन्यविनाभूतमित्यर्थः । “तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरावर्पिताः एवमेवैता भूतमात्रा मज्ञामात्रास्वर्पितः, प्रज्ञामात्रा: प्राणे अर्पिताः