पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ श्रीरङ्गरामानुज्ञमुनिविरचिता ननु तथाशब्दस्यानुगमविशेषणत्वे कथं तथा सत्येवोपपद्यत इतेि साध्य धर्मपरामर्शित्वानुगुणभाप्यनिर्वाह इत्याशङ्कय प्राणः परमात्मा तत्साधकानन्दत्वादि योगदित्युक्त अर्थात् साध्यस्यापि परमर्शित्वं सम्भवतीत्याशयेनाह-बुद्विस्थसाध्य साधकधर्मेति । अन्यविशेषणभूतपरमात्मलिङ्गत्वादिति । तं मामायुश्मृतः मित्युपास्वेत्यत्रामृतत्वादेर्बह्मलिङ्गस्य उपासनन्विततया निर्देशादिति भावः । मूत्रा न्तरकाथ्यादिति । तेन कृतश्रत्वादित्यर्थः । न वतुरात्मेोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मन् १-१-३०. सालावृकयतिप्रदानेति । – “त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान् यतीन् सालावृकेभ्यः प्रायच्छं वहीः सन्धा अतिक्रम्य दिवि प्राह्मादीनतृणहम् । अन्तरिक्षे पैौलोमान् पृथिव्यां कालक्ञ्जान् तस्य मे तव न लोम चाभीयते ? इति श्रवणादिति भावः । अरन्मुखान्, रौतीति रुत् वेदान्तवाक्यम्; तत्र मुखं येषां ते रुन्मुखाः, ततोऽन्ये अरुमुखा: तन् । यतीन् सांलावृकेभ्यः वन्श्वभ्यः प्रायच्छम्; बह्वीः सन्धाः बह्रीः प्रतिज्ञा अतिक्रम्य दिवि स्थितान् महादीन् प्रहा:पुत्रान् अतृणहं हिंसित वानस्मि । पैलोभान् पुलोमपुत्रान्, काळकञ्जान् कालकञ्जात्यानसुरान् अतृणहमिति पूर्वेण सम्बन्धः । तस्य एवं हिंसितवतो मे तत्र तादृशेऽतिवोरे दुष्कर्मणि सत्यपि लोमापि नामीयत नहिंस्यत इत्यर्थः । भूयस्त्वशब्देन व्याख्यात इति। फलतो व्याख्यात इत्यर्थः । एतेन बहुशब्दात् पृथ्वदित्वादिमनिचि, “बहोलॉपो भू च बहोः ” इतेि निष्पन्नस्य भूमशब्दस्य बहुत्वमेवार्थः, न तु बहुतरत्वापरपर्यायं भूयस्त्वमिति शङ्का निराकृता । भूमशब्दप्रकृतिं दर्शयितुमिति । प्रकृतिप्रत्ययव्युत्पति सिद्धार्थे दर्शयितुमित्यर्थः । बहुनाविना' शब्देन भूयस्वस्य फलितत्वप्रकारं वर्शयति-आपेक्षिकं हीति । . बहुत्वस्य सावधिकवादवध्यपेक्षायां जीवलिङ्गानां संनिहितत्वात् ततो बडुत्स्थ सिौ विवक्षितभूयस्वं सिद्धयतीति भावः । भाप्ये वक्तरि परमात्मन्येव हि संभवति इति । वक्तरेि वक्तून्तर्यामिणीत्यर्थः । यद्वा वक्तरि परमात्मनीति व्यधिकाणे सप्तग्यौ, वक्तानुप्रविष्टपरमात्मनीत्यर्थः; वस्तुतो क्फुरिन्द्रस्य परमात्मत्वसम्भवादिति द्रष्टव्यम् । “स. एष प्राण एवेत्यादिक मुपात्तमिति । ततश्च पूर्वसूत्रविषयवाक्यस्य इहोपादानं न दोषायेति भावः ।