पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता तत्वात् इह जन्मदिषु प्रयुज्यमानो लीलाशब्द औपचारिक एव स्यादिति वाच्यम् परिपूर्णानन्यप्रेर्यस्वच्छन्पुरुषकार्थेचेष्टविशेषे लीलाशब्दस्य प्रचुरप्रयोगसत्त्वेन जन्म स्थित्यादेरपि मुख्यलीलात्वस्य सिद्धान्त्यभिमतत्वात् ; “लोकवत लीलाकैवल्यम्' इति सूत्रभाण्यस्यापि जगजन्मादेर्ललात्वपरतया व्याख्यात्यमानत्वाच । भङ्गस्य लीलात्वे युतेऽपीति । न च भङ्गस्य नाशरूपत्वात् नाशस्य च जन्मथित्यादिवत् प्रयोज्य गतत्वाविशेषात् कथमर्धवैशसेन भङ्गस्य लीलावाभ्युपगम इति वाच्यम् ; घटो विनश्यतीतिवत् घटो भन्क्तीति प्रयोगाभावेन तयोर्मित्रत्वात् । अत एव घटो जायते, घटस्तिष्ठतीतिवत् घटो भनक्तीति प्रयोगाभावः । तथाच घटकर्तृकव्यापारौ जन्मस्थिती, भङ्गस्तु न तद्यापार इति विवेकः । लीलात्वकथनेनोपादानत्वं फ़लितमिति । जगज्जम्भस्थित्योः परमात्मलीलात्वकथनेन परमात्मसभवेतव्यापा स्त्वेोक्ता परमात्मन एव भाव्यवस्थावत्वेन उदानत्वलाभादिति भावः । ननु भूतशब्दस्य लब्धसत्ताकार्थकत्वे लब्धसत्ताकानां तेषां परमात्मसाध्या रक्षा कीदृशीत्याशङ्कयाह-लव्धस्वरूपाणां चेति । ननु लब्धस्वरूपाणां स्वरूपा प्रच्युतेर्भगवदूरत्ववत् अलब्धस्वरूपाणां स्वरूपलाभरूपरक्षा अपि भगवद्भरत्वात् कथं लब्धस्वरूपाणां रथैकदीक्ष ? इति पृथक्कृत्योच्यत इति चेत्, आनुकूल्यावस्थायां तद्रक्षाया निमित्तान्तरनैरपेक्ष्येण तत्र विशिष्योक्त्युपपतेः । षष्ठयाः संबन्धमात्र विषयत्वादिति । ननु यद्यपि संबन्धवचिनी षष्ठी, तथापि यस्य विशेषस्याभि व्यञ्जकमस्ति, तत्रैव पर्यवस्यतेि; यथा देवदत्तस्येत्यभेदेन प्रवृत्ता षष्ठी पुत्रः, पाणिः कम्बल इति प्रतिसंबन्धवशेन पितृत्वावयवित्वस्वामित्वरूपविशेषेषु पर्यवस्यित ; न हि देवदत्तस्य पुत्र इत्युक्ते देवदत्तस्वामिकमन्यपितृकं पुत्रं प्रतियन्ति । ततश्च भूतव्रात इत्युक्त भूतत्रातयोरेव समुदायसमुदायिभावलक्षणः संबन्धः प्रतीयते । ततश्च भूताभूतत्राते भूतत्रातशब्दस्य, सापेक्षमसमर्थमिति न्यायेन अमीषोमीये आमेयशव्द वदसामथ्र्थादप्रवृत्त , 'अथवा छलिन्यायेन लक्षणा वा समाश्रयणीया स्यात् । राजपरि वदित्यादौ तु परिषसेनादिशब्दानां समुदायिविशेधविशिष्टसमुदायवाचिनां नैकान्तः समुदाय्यपेक्षा; यथा बनघटादिशब्दानां तरुगजादिसमूहवाचिनामन्तर्भावित 1. अथचेति पक्षान्तरे; वेति अनादरे ।