पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता संजनयन् परमात्मा स्वाश्रितविषये बहुभ्यां संनमति सम्यकू महीभवति ; “प्रह्वी भवतिं नीचे हि परे नैच्यं विलोकयन् ! इत्यादिस्मृतेरित्यर्थः । विदीप्त इत्यत्र विशब्दस्य दीप्तिमात्रव्यावर्तकत्वस्य स्वरसतः प्रतीयमानत्वात् पूर्वभागप्रतिपाद्यत्वरूपविशेषणविशिष्टतया दीप्तमित्यस्यार्थस्य स्वरसतोऽप्रतीतेराह यद्वा क्षुद्रसुखेति । केचित् द्वितीयपक्षे दीप्तिदिीप्त्योर्भिन्नविषयतया अस्वारस्यं मन्यमानाः प्रथममेव पक्ष रोचयन्ते । ते च तद्वाक्यमेयं योजयन्ति - अग्न्यादिरूपतया पूर्वभागेऽपि ब्रह्मणः प्रतिपाद्यत्वमस्त्येव; “तदेवमितद्वायुः” इति उपनिषद्वाक्येन तथैव ज्ञायमानत्वात् । वेदान्तभागे तु विशेषेण दीप्तमिति । विशेषेण=अद्वारकतयेत्यर्थः। व्युत्पत्तिलक्षणसैौष्ठवामाव इति । व्युत्पत्तिसमर्थनं प्रथमाधिकरणे; लक्षणसौष्ठव समर्थनं जन्माद्यधिकरणे । रूढिशत्येति । श्रीनिवासशब्दस्य नारायणे रूढत्वात् श्रीनिवासे ब्रह्मणीत्यनेन नारायणस्यैव ब्रह्मत्वाविष्करणादिति भाव । ब्रह्माणस्त दत्तीर्णत्वं चेति । भेदाभेदवादिपक्ष इत्यर्थ । चक्ष्यति हि श्रीनिवासशब्दं प्रस्तुत्य - * अनेनैवेश्वरोत्तीर्णब्रह्मवादिनो भेदाभेदवादिनो व्युदरत ; ) इति । परस्मिन्नित्यनेन “ ब्रह्मविदामोति परम् ?’ इति श्रुतिगप्तपरशब्दार्थसूचनमुखेन, “पर मतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ? इत्यधिकरणार्थस्य प्राप्यन्तरव्युदासस्य, पर शब्दप्रत्यभिज्ञया, “न स्थानतोऽपि परस्य “” इत्यधिकरणार्थस्य उभयलिङ्गत्वस्य वा स्मरणं संभवतीत्यभिप्रयन्नाह - परस्मिन्नित्यादि । वस्तुतोऽर्थद्वयसूचन्मपि संभवतीति ध्येयम् । अविशेषेण भक्तिरूपेत्युक्तत्वादिति । न च “ अत्रापि, 'छागो वा मन्त्रवर्णात्' इति न्यायोऽभप्रेत ' इति पूर्ववाक्येन च , “शेमुषी भक्तिरूपेति भक्तिरूपज्ञानस्योपायत्वं प्रागुक्तम्; कथमिदानीं प्रीतिरुपध्रुवानुस्मृतेरुपायत्वं प्रति पाद्यत इत्यत्राह--एवंरूपेति ; एवंरूपा साक्षात्कारप्रीतिरूपत्वपर्यन्ता धुवानुस्मृतिरेव भक्तिशब्दवाच्येत्यर्थः । इति लघुसिद्धान्तग्रन्थेन च विरोधः शङ्कनीयः; एतस्य मतान्तरत्वेनादोषान् । रथैकदीक्षे परसिन्नित्यन्तैरिति । अत्र रथैकदीक्ष इत्य समान परम् * इति ' शब्दोऽध्याहर्तव्यः ; ततश्चेत्थं योजना . परस्मिन्नित्यन्तैः प्रतिपादित उपेयभूत एव झै दीक्ष इति सिद्धोपाय उक्त इति । ततश्च रक्षकदीक्ष इति पदोपादानवैयध्यै न चोदनीयमिति द्रष्टव्यम् । भाट्टप्राभाकरा व्यावर्तिता इति ।