पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीरङ्गरामानुजमुनिविरचित इत्यादौ विच्छब्दस्यैवार्थतो ज्ञानपत्वमाश्रित्य वेश्शब्दस्यार्थपरत्वाभावोऽपि वक्तं सुशकः; यथा, “यः सर्वज्ञः सर्ववित् ? इत्यत्र सर्वे प्रकारतो वेतीत्यर्थाश्रयणम् : न हि तत्र सर्वपदस्य लक्षणा - तथा 'वेदं वेत्ति ' इत्युक्ते वैतीति शब्वात् न वेदस्य स्वरूपेण ज्ञानमात्रं प्रतीयते, अपितु तत्तदर्थविशेषप्रतिपादकत्वप्रकारेणापि वेतीति ह्यर्थः प्रतीयते । अत एव “ तदधीते तद्वेद ' इति सूत्रे, “यस्तु सामपाठं पठति नासौ वेदेत्युच्यते !” इति, “ अर्थाभिज्ञ एव वेदेत्युच्यते ?' इति चोक्तः महाभाष्य इति चेत् “ न; “सोऽहं भगवो मन्त्रवेिदेवामि, नात्मवित्' इत्यादौ विच्छब्दस्यार्थप्रतीतिपरत्वाभावेन् विच्छब्दादर्थप्रतीत्यदर्शनात् । किंच यदि (द्यत्र)

  • वेदवित् । इत्यादावसंपतिपत्तिः, तदा 'नोदाहरणमादर्तव्यम्' इति न्यायेन ‘मन्त्र

साक्षात्कारवानथ ' इत्यादिकं संप्रतिपन्नमुदाहरणlन्तरं भविष्यतीत्यदोषः । न ह्याः मन्त्रशब्दस्य मन्त्रार्थपरत्वे विप्रतिष्ठतिरस्ति । लक्षणबीजभूतं वचशब्भुख्यार्थभूतवाक्यस्य लक्ष्यमाणार्थसंबन्धमुपपादयति अर्थाभिधायकं हि वाक्यमिति । सुधाशब्दलक्षणाभयाचेति । सुधासदृशार्थे लक्षणथा अभ्युपगन्तव्यत्वादिति भावः । ननु रूपकपक्षेऽपि वचश्शब्दस्यार्थे लक्षणा आवश्यकीति तुल्यमिति चेत्-सत्यम्; त्वन्मते सुधाशब्दे लक्षण, वचसः सुधा वचःखुधेति वचश्शब्दस्य षष्ठद्यर्थलक्षणाप्यभ्युपगन्तव्या; अस्मृन्मते तु वचः शब्दमात्रे लक्षणेति भाव । नसु स्वाभिमते, “उपमितं व्याघ्रादिभि ”, “मयूर व्यंसकादयश्च ? इति वा सूत्रानुशिष्टरूपकसमासेऽपि सुधाशब्दलक्षणा अविशिष्टा सुधाशब्दस्य तत्सदृशपत्वात्; “ विशेषणं विशेष्येण ' इत्यनियमे प्राप्त आरभ्य माणस्यास्य सूलस्य विशेषणविशेोज्यत्वनियमार्थत्वात् (प्यविषयत्वात्); भिन्नार्थ येोवैचःसुधाशब्दयोर्विशेषणविशेष्यभावस्य सुधाशब्दे सदृशलक्षणामन्तरेणायोगात्; आपादपरिसमाप्तः, “ समानाधिकरणेन' इत्यधिकाराभ्युपगमाच; सुधाशब्देन भोग्य त्वमभिप्रेतमिति वक्ष्यमाणत्वाचेति चेत् सत्यम्; अस्त्येव स्वपक्षेऽपि लक्षणा; तथाष्टि सा , “उपमितं व्याघ्रा दिभिः ? इति सूत्रानुशिष्टा। षष्ठीसमासपक्षे तु सुधाशब्दस्यार्थे लक्षणा न शास्त्रीयाः अपि त्वैच्छिकी । अत एव, “इन्द्रपीतस्य ” इति भक्षमन्त्रे बहुव्रीहौ लक्षणाद्वय