पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सद्भावेऽप्यैच्छिकलक्षणाद्वययुक्तत्पुरुषपक्षपरित्यागेन शास्त्रानुशिष्टलक्षणाद्वयुक्तबहु ब्रीहिंपक्ष एाश्रितः । इन्द्रेण पीत् इति तत्पुरुषाश्रयणे पूर्वपद एकः लक्षणा ; तथा पीतपदे पीतावयलक्षणा । वक्ष्यति चाचार्यः * अन्नस्तद्रॉपदेशात् ? इत्यत्र,

  • हृदयपुण्डरीकमिति प्रयोगस्तु 'उपमितं व्याघ्रादि:ि ' इति मूलविलिसमाक्षत्वात्

मुख्य एव' इति केचित्तु रुपकसमले शक्यतावच्छेदाप्रकारकस्याहार्यारोपस्यैवोत्पतेस्तत्र मुख्यत्वमेव ! अत एव अन्नमयादावात्मशब्दस्य मुख्यत्वमिति, “अन्वयादिति चेन् स्यादवधारणात् ? इत्यादौ क्रियासमभिहारेण प्रन्थकृद्धावार इति वदन्ति । ननु “उपमितं व्याघ्रादिभि: सामान्यायोगे ।। इति सामान्यधर्मप्रयोग एव समासविधानात् पूर्वाचार्यसुरक्षितत्वादेश्च सामान्यधर्मस्य प्रयुज्यमानत्वात् कथं समाप्त इत्याशङ्कय, 'पुरुषव्याघ्रोऽभिरूप इत्यादिषु व्याघ्रशब्दविवक्षितशत्वरूपसामान्य धर्माप्रयोगेणाभिरूपशब्दप्रयोगेऽपि समासवत् सुधाशब्दविवक्षितभेोग्यत्वरूपधर्मा प्रयोगात् समास उपपद्यत इत्यभिप्रयन्नाह-सुधाशब्देन भोग्यत्वमभिप्रेतमिति । ति आदिशब्देन गाम्भीर्याद्युच्यते । आध्यात्मिकादीति आदि शब्देनाधिदैविकाधिभौतिकयोग्रहणम् । समिति कैवल्यव्यावृत्तिरिति । नन्वेतद्वाक्यपर्यालोचनायां कैवल्यस्यापि संसारेन्मोचनकोटावनुप्रवेश एवाचार्याणामभिमत इति प्रतीयत इति चेत् - मैवम्; समिति कैवल्यव्यावृत्तिरिति वदद्भिः कैवल्यस्य समीचीनसंसारनिवृत्तित्वाभावकथनेन संसारानुवृत्तेरेवाभ्युपेतस्वात् । प्राणशब्दस्य परमात्मरत्वसमर्थनपूर्वकं परमात्मलाभे संसारस्य हेतुत्वं कथयतामाचार्याणां कैवल्ये संसाराभावस्थाभिमतत्वे, “निमित्तापाये नैमित्तिकस्याप्यपायः ) इति न्यायात् कैवल्ये संसाराभावेन परमात्मलाभस्यैवाभ्युप गन्तव्यत्वप्रसङ्गात् । वस्तुतस्तु व्यपगतप्राणत्मसंजीवनीमित्युक्त व्यपगतप्राणानां संजीवनीं प्राणधारिकामित्येवार्थः प्रतीयते ; जीवनशब्दस्य प्राणधारणथेत्वात् । ततश्च यः प्राणो व्यपगतः, तत्प्राणलम्भिकामित्यर्थः पर्यवस्यति । ततश्च व्यपगत परमात्मरूपणलन्भक्वं कैवल्यस्याप्रसक्तमेव । कथं तर्हि, समिति कैवल्य व्यावृत्तिरित्युच्यत इति चेतू; इत्थम् - प्राणशब्दो जीवपरमात्मोभयंपरः ; भू