पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अथातश्शब्दार्थविचार) वाच्यत्वमभ्युपगम्य कथ योग्यत्वस्य शाब्दत्वं प्रत्याख्यायते ? * अहं कृत्यतृचश् " इत्यनुशासनेन प्रस्तावार्हस्वस्यापि प्रस्तोनध्यशब्दार्थत्वात् । न च प्रस्तोतव्यत्वस्यापि च्यत्वं नाभ्युपगतमिति वान्यम्- तदानीमपीत्यपिशठदेन तदभ्युपेयैव प्रवृत्तेरिति चेत् - न – तदानीमपीत्यपिशब्देन न वाच्यत्वमभ्युपेतम्, अपि तु तत्पदपयोज्य प्रतीतिविषयत्वमात्रं प्रस्तोतव्यावस्याभ्युपेतम् । ततश्च, यथा धूमे घोधिते स्वयमेवासौ वद्विगनुमास्यतीति बुद्धय। प्रयुक्ते * धूमोऽस्ति ? इति वाक्ये वह्वयस्तित्वं न शाव्दम् , मुख्यार्थानुपपत्त्यभावेन वौ लक्षणाया धूःशब्दे (व्दस्य) अभावात् - तद्वत् प्रारम्भ योग्यत्वस्य कथंचिदथपदप्रयोज्यप्रतीतिविषयत्वे सत्यपि न शाब्दत्वमिति भावः । ननु वहितात्यैके 'धूमोऽस्ति ? इति वाक्ये वह्वयस्तित्वस्य शाब्दत्वमपि संभवत्येव, तात्पर्यस्यापि लक्षणाबीजत्वात् । ' अध्भक्षः' इत्यादौ यथाश्रुनार्थप्रतिपादनमात्रेण प्रयोजनानवाप्स्तन्मात्रभक्षणस्य शाब्दत्वाङ्गीकारात् । नद्यां सेिष्णासुं प्रति प्रयुते, नद्यां ग्राहाः सन्ति । इति वाक्ये, * तत्र मा स्रासीः ? इत्यादिवाक्यार्थलक्षकत्वस्य तान्त्रिकैरभ्युपेतत्वादिति चेत् - न । आरम्भयोग्यत्वस्य व्यङ्गयार्थतया शक्तिलक्षणान्य तरभूलकत्वाभावेन शाब्दत्वाभावात् ; प्रसिद्धानन्तर्यार्थप्रतिपादनमुखेन वक्ष्यमाण प्रयोजनसंभवे अप्रसिद्धमन्दप्रयोजनकप्रारम्भार्थकत्वस्यायुक्तवाच । अथवा, अशाब्दम् अनाच्यम् अशक्यमित्यर्थः । योग्यत्वस्य कथंचिदमुख्य धृत्या प्रतिपाद्यत्वसंभवेऽपि मुख्यत्वासंभवात् मुख्यार्थग्रहणे संभवति तत्यागस्यानुचितत्वादिति भावः । एव मथयोग्येत्युक्ते इति । यद्यपि, * अयातो ब्रह्मजिज्ञासा. योग्या ' इत्यध्याहारे अथेत्यस्याधिक्रियत इत्यर्थः; ततश्च * अधिक्रियते ब्रह्मजिज्ञासा योग्या ? इत्यर्थः स्यात् । योग्यत्वं च संनिधानात् अधिकार एव लभ्यते । यथ , * योग्या ब्राह्मण आनीयन्ताम् । इत्युक्त आनयनयोग्या इत्येव प्रतीयते । ततश्च * प्रारभ्यते योग्या ब्रक्षजिज्ञासा इत्युक्त प्रारम्भयोग्येति प्रतीतिः सिध्यति-तथापेि अधिक्रयते योग्येति न शाब्दप्रतीतिः स्यादिति भाव । अंत एव वक्ष्यति – “ अधिकृतमित्यपि फलेि तार्थकथनम्; न वाचनिकोक्तिः ? इति । चादीनां द्योतकत्वादितेि । निप तानां द्योतकत्वस्य वाक्यपदीये निर्णीतत्वादिति भावः । नन्विदमान्तर्यार्थकत्व. पक्षेऽपि समानमेित्याशङ्कय सभोजनत्वाप्रयोजनत्वाभ्यां वैषम्यमित्याह – अत्र त्वित्यादिना ।