पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२० श्रीरङ्गरामानुजमुनिविरचिता प्रकारकज्ञानजनकस्य अथशब्दस्य, पूर्ववृत्तविशेष्यक् हेतुत्वप्रकारकज्ञानजनकस्य चात शब्दस्य नैकाकारप्रतीतिजनकत्वमिति प्रथमपक्षं दृषयति - अथशब्दस्यानन्तर कालमुपस्थापयत इत्यादिना । द्वितीयं दूषयति - प्रतिज्ञाहेतुरूपेणेति । । कर्तव्यतामात्रं साध्यधर्म इति । ब्रह्मजिज्ञासा विचारितकमभिः पुरुषैरनुष्ठया, कर्मणामल्पास्थिरफलत्वप्रतीतिसहितानन्तस्थित्फलमतीतेर्विचारितकर्मसु पुरुषेषु संभवा दिति प्रदर्शनं शुचितम् । ततश्च विचारलकर्मत्वरूपपुरुषविशेषणपतेित्यर्थमथ शब्दोऽपेक्षितः । तस्मिंश्च सति उक्तार्थो लभ्यत इति भावः । शास्त्रान्तरश्रवणेन विना संपादयितुमशक्यत्वादिति । नित्यवस्तुविवेकादीनामिति शेषः । अथशब्दाक्षिक्षेति । अथशब्दाक्षिप्तकर्मविचारहेतुत्वक्षिप्तस्य विशिष्टहेतोरसिद्धि शङ्कापरिहार्थत्वादित्यर्थः । ( अधीतसङ्गतेिभाध्यविषय:) अधिगताल्पस्थिरफलकेवलकर्मज्ञानतयेति भाष्थस्थाथमर्थः – अधि गतम् = प्राप्तम् अल्पास्थिरफलं केवलकर्मेति ज्ञानं यस्य सोऽधिगताल्पा स्थिरफलकेवलकर्मज्ञानः, तत्त्वेनेति । उपनीय तु शिष्यमिति । ननु श्रोत्रियो पाध्यायगुर्वादिनामविधानवत् तत्प्रकरणस्थमिदं वाक्यमुपनीयाध्यापयितुराचार्यनाम विधानपरमिति ग्रन्थकृतैव वक्ष्यमाणत्वात् कथमस्य वाक्यस्य साङ्गसशिरस्कवेदाध्ययन कर्तव्यतायां प्रमाणतयोपन्यास इति चेत् - मैवम् । “ कार्यकालं संज्ञापरिभाषम् । इति न्यायेनास्य वाक्यस्य , * आचार्यवान् भवेत्' इति विधिशाक्यैकवाक्यतया तद्वाक्यैकदेशस्यास्य तदेकवाक्यतया प्रमाण्यसंभवात् । ततश्च कंचिदुरुमुपेत्य तस्य सकाशात सकल्पं सरहस्यं च वेदं स्वीकुवतेिति हि तस्य वाक्यस्यार्थ इति भावः । गुरुमताभिप्रायेण वा बोध्यम् । गुरुमते हेि, “सकल्पं सरहस्यं वेदमध्यापयेदाचाथैक कामः । इति श्रुत्युन्नायकत्वादस्य वाक्यस्याध्यापनविधिप्रयुक्तवेदाध्ययनबत् कल्परहस्या ध्ययनस्यापि सिद्धत्वोपपतेः । आगमोत्थेति । विचारसहकृतवाक्यजन्यमागमोत्थम् । विवेकविमोकादिजन्यं तु ध्यानादिरूपम् । कर्मविचारस्य हेतुतयोक्तत्वात् इत्यनन्तरं 'सिद्धः । इति शेषः । सिद्धिप्रकारः कथमित्याशङ्का, कारणतया कार्यनया च अङ्ग सिद्धिरित्यह् - कर्मविचारस्येत्यादिना । 'आवृत्तिविधानादिभिरितः।