पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रक्षाशिका (अधीतसाङ्गेतिभाक्ष्यविषयः) २३ ध्यानस्याप्यावृत्तिरुक्ता, तथापि * ऋायान्तमोंकारमभिध्यायीत ? इति प्रायणान्त मनुष्ठितम्यैव ध्यानस्य मोक्षसाधनत्वात् । कर्मणि, तादृझावृत्तिविशिष्टस्य कर्मणो मुक्तिसाधनत्वप्रतिपादकवाक्यादर्शनात् । “ स खल्वेवं वर्तयन् थावदायुषम् ?’ इत्यस्य ध्यानविषयत्वात् । कर्मसु तु पञ्चाव्दपञ्चदशाब्दाद्यावृतिारतम्यात् फलभेद स्यावश्यम्भावात् । न हि ध्यानादावीदृशमवृत्तिरिभ्यमस्ति, प्रायणान्तावृत्तस्यैव साधनत्वात् । न हि प्रायणान्तावृत्तं (ति) साधनं कस्यचित् शीघ्रमासी दित्येतावता फललाघवं कल्पयितुमुचितम् । तथा हि सति कस्यचिद् दृढाङ्गम्य सह कारिौष्कल्यवतः किंचित् कर्म शीघ्र निवृत्तमिनि तत्र फललाघवं क्ल्ये त । न ि सेतुदर्शनं कस्यचित् रोग (चोर) पीडादिकमन्तरेण निप्न्नमित्यतादृशापेक्षया फल वैषम्यं कल्प्यते । उपसंहार्यगुणात्पभूयस्वादिकमपि न फलवैयम्यक् कम्; यथ|- कथंचिदप्रयाणं निरन्तरकर्तव्यत्वविशेषेणानुष्ठाने सौकर्यौष्कर्यासंभवात् । तस्मादा वृतिारतम्येन फलतारतम्यस्यायथाभ्युपेयत्वात् मुक्तौ च तदभावात् मुफेरन्यदेव कर्मणः फलं वाच्यम् । किंच अनेकजन्मनुष्ठितनित्यनैमितिककर्मनिर्मलीकृतान्तः करण सं द्यायाः शान्त्याद्यङ्गिकाया भक्तेः सर्धतो गरीयस्त्वेन तत्साध्यमुत्तेः कर्म साध्यत्वे गुरुतरभक्तिरूपसाधनविधेर्महाविश्वासानुचद्धप्रपतिविधेश्वाननुष्ठानलक्षणा माण्यप्रसङ्गात् न कर्मणां भक्तिप्रपतिसध्यमोक्षफलकत्वमिति कर्मफलनित्यत्वनिश्चयः कृतकर्मविचाराणां सुलभ इति आवृत्तिविधानादिभिरित्यस्य ग्रन्थस्याभिप्रायः । कर्मणः फलद्वारा हानायेति फलद्वारा हानम् = फलस्यानित्यत्वज्ञानिति यावत् । ज्ञातव्यत्वम् विचार्यत्वमित्यर्थः । कर्मविचारस्य कर्मफलनित्यत्वज्ञान फलकत्वं कण्ठोक्तमित्यर्थ । स्खरूपेणोपादानायेति । तृतीयाध्यायकरिष्यमाण विचारापेक्षिप्तकर्मस्वरूपपरिज्ञानायेत्यर्थः । एतेन - कर्मविचारस्य ब्रह्मविचारोपयोग दशायां कर्मज्ञानस्य हानोपादानोपयोगसमर्थनमसंगतम् । न हि हानोपोदानयोर्विचारो पयोगोऽस्ति, येन तदद्वारा कर्मविचारे ब्रह्मविचारोपयुक्तः स्यात् । उपादेयस्य नित्यनैमितिककर्मणो ध्यानाङ्गत्वेन विचाराङ्गत्वाभावात् । न च विवारे प्रवर्तमानस्यापि चित्तशुद्धार्थे कर्मानुष्ठानमपेक्षिम्, काम्धानां च कर्मणां त्यागोऽपेक्षित इति वाच्यम् । तर्हि कर्मविचारानन्तरं किंचित्कालं कर्मानुष्ठाय विशुद्धचितो विचारे प्रवर्तत इत्यव्य