पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता वधानेन प्रवृत्तिर्न स्यात्-इति शङ्का परास्ता । हानोषादानशब्दयोरनित्यत्वनित्यत्वद्वारा हेयत्वोपादेयत्वज्ञापनपरत्वात् । अत एव हि वक्ष्यति . स्वरूपेणोपादेयत्वप्रतीते (ति) रनन्तस्थिरफलापातप्रतीत्यन्तभावादिति (भूतेति?) । ननु कर्मविचारात् कणामल्पस्थिरफलत्वनिश्चयसद्भावेऽपि न हेयत्वनिश्चयः । उत्तरभागे अनन्तस्थिर फलनिश्चयाभावेन सर्वत्राप्यल्पखिरफलत्वसंभावनावतः पूर्वभागप्रतिपन्ने कर्मणि हेयत्वनिश्चयानिष्पतेरिति चेत् -न; उत्कटकोटिकहेयत्वज्ञाननिष्पतिसंभवेनादोषात्। । ग्रन्थाविरोध इति । * अपेक्षितकर्मस्वरूपज्ञानं केवलकर्मणाम स्थिरफलत्वज्ञानं च ) इति प्रयोजनद्वयसूचकग्रन्थेन कर्मफलानित्यत्वज्ञानरूपैकप्रयोजनप्रदर्शकस्यास्य न विरोध इत्यर्थः । कर्मानुष्ठात्रभाप्रसङ्ग इति । अकृतकर्मविचाराणां त्वनुष्ठा नैौपयिकार्थनिश्चयाभावेनानुष्ठानाप्रसतेः अनुष्ठानस्य कृतकर्मविचारपुरुषांवष्यतया तेषां च ब्रह्मविचारप्रवृत्तत्वादनुष्ठात्रभावप्रसङ्ग इत्याक्षेपाभिप्राय । श्रुत्वापि ये खगर्थिन इति । ननु कृतकर्मविचाराणां सर्वेषां ब्रह्मविचारे प्रवृत्तया वैराग्यपादश्रवणेन स्वर्गार्थित्वमेव न स्यादित्याक्षिपन्तं प्रति नेदमुत्तरमिति चेत् : न; श्रुत्वापि ये स्वर्गार्थिनो दृश्यन्ते, तेषामिति तदर्थत्वात् । ब्रह्मविचारसामग्रीति । कृतेऽपि ब्राविचारे अदृष्टवैगुण्येनाशुद्धचित्ततया स्बर्गार्थकर्मानुष्ठानसंभवादित्यपि द्रष्टव्यम् । (षष्ठवर्थविचारः) कर्मत्वकरणत्वादिसंबन्धविशेपेष्विति । नन्वेतद्वाक्यपर्यालोचनायां षष्ठद्यर्थभूतसंबन्धसानान्यावान्तरविशेषरूपत्वं कर्मश्वकरणत्वादेः प्रतीयते । न च तद् युज्यते वकुम्; “ षष्ठी शेषे ” इति कर्माद्यतिरिक्त प्रातिपदिकार्थव्यतिरिक्त षष्ठया अनुशिष्टत्वेन, द्वितीयातृतीयार्थयोः सामान्यविशेषभावभाववत् द्वितीयार्थस्य षष्ठयर्थस्य च सामान्यविशेषभावाभावात् ।

  • संबन्धः कारकेभ्योऽन्यः क्रियाकरकपूर्वकः ।

श्रतायामश्रनायां वा क्रियायां सोऽभिधीयते । । इति हरिणोक्तत्वेन, 'नटस्य शृणोति । , 'माषाणामक्षयात्', 'अनुकरोति भगवते नारायणस्य ' इत्यादावपि कर्मत्वाद्यतिरिक्तस्य क्रियकारकसंबभ्धपूर्वकस्य शेषशेधि भावादिलक्षणस्य संबन्धस्य सत्वादिति चेत् - न ; 'माषाणामश्रीयात् ? इत्यादौ