पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिति चोद्यते; येनायमुपलम्भः स्यान् । किंतु “कृद्योगलक्षणा षष्ठी समभ्यते ?’ इत्यनेन कृद्योगलक्षणषष्ठयन्तपत्स्थ लुप्तायां विभक्तौ तदर्थे लक्षणाय साधुत् न्वाख्यानपरेण व्याल्यानं क्रि, क्रियते ? न हेि ।ङ्गापदस्य तीरे लक्षणाया प्रयोगे साधुत्वमस्तीत्यत्रानुशासनमपेक्षितमित्याक्षेपस्य कचिदर्थविशेषे लक्षणया प्रयोगस्य साधुत्वमनुशासनसापेक्षमिति परिहारस्य च संभवेनाद्रोषान् । ननु लुप्तविभक्त्यर्थस्य लुप्तविभक्तिकशब्द्रमुख्यार्थश्वे निषादथपत्यधिकरण विरोधः, षष्टीतत्पुरुषे लक्षणाया अमान्तेरियरुचेराह - अमुख्यत्वे वा का नः क्षतिरिति । ननु पदान्तयोगविहिनविभक्तेरर्थसद्भावे , * नमस्करोति देवान् । इत्यत्र नमःशब्दयोगनिमित्तचन्थ्यैपेक्षया कर्मणेि द्वितीयायाः प्रचल्यं न स्यादित्या शङ्कयाह – कारकविभक्तेरिति । पदान्तरयोगविहितत्वरूपमस्त्येवेति । ननु

  • कर्तृकर्मणो: ) इति विाहेतस्य कृदन्तपद्योगनिमित्तत्वेऽपि न कारकविभक्तित्वक्षतिः

तत्र शान्द्रिकानां कारकषष्ठीत्वस्य व्यवहारात् । अत एव, * गतिकारकोपपदान् कृत् " इति कारकस्वरो भवति ? इतरथ ) स न प्राप्नुयादिति चेत् – सत्यम् : अस्त्येव कारकविभक्तित्वम् । उपदयोगनिमित्तयोपपदविभक्तित्वमप्यस्ति । तस्या श्रोपपदयोगनिरपेक्षकारकविभक्तयपेक्षया दौर्बल्यमप्यनुभवसिद्धम् । घटं करोति इत्यत्रेव. * घटस्य कृतिः' इत्यत्र कर्मत्वस्य शीघ्रप्रतीत्यभावात् । न चैवम्।

  • कर्तृ३ र्मोः कृति ? इति षष्ठया उपपदविभक्तिवे षष्ठीं बाधित्व द्वितीया प्रामोतीति

वाच्यम् - तद्विषय एवारभ्यमाणत्वेन तदपवादत्वात् । न चैवम् , “कन्याथ अलंकर्ता इत्यादौ कृद्योगषष्ठया अप्युपपदविभक्तित्वाविशेषात् अलंयोगनिमितचतुर्थीबाधकत्वं न स्यादिति वाच्यम् - परत्वेन बाधकत्वोपपतेः । कर्मणि षष्ठया अपि कारकविशेष विहितत्वेन कारकविभक्तित्वस्थाप्यभ्युपेत्वेन अलैपद्योगनिमितविभक्तः केवलोप पदविभक्तित्वेन ताधकत्वोपपतेश्ध । पदान्तरपरामर्शसापेक्षत्वेनेति । उक्तं च - * सूक्तवाके च कालविधिः प्रार्थत्वात् ! (३-२-५) इत्यत्र तृतीये, * यूक्तः वाकेन प्रतरं प्रहरति” इत्यन्न सूक्तवाकेनेति तृतीया इत्थंभूतलक्षणे भविष्यतीति पूर्व क्षे, “सर्वत्र क्रियाकारकसंबन्धस्यान्तरङ्गत्वात् सूक्तवाकस्य स्तर हरणक्रियायां कारकत्वेनैव संबन्धा वक्तमुचितः । इत्थंभूतलक्षणाश्रयणे तु न कारकत्वेन संबन्धः