पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ श्रीरङ्गरामानुजमुनिवेिविता सिध्येत् । न च लक्षणक्रियायां करणत्वेनान्वयो युक्तः ; सूक्तवाक्येन लक्षितं न्नत्थंभूतलक्षणे तृतीया । । अपि तु करणे तृतीयैवेति – उक्तरीत्या उपपदविभक्ते कारकविभक्तचापेक्षया दुर्बलत्वादिति । अपुख्यत्वं तु परिहृतमिति । “ का न क्षति ) रिति परिहृतमित्यर्थः । (ब्रह्मशब्दार्थविचारः) पुरुषोत्तमशब्दस्य रूढचेति । यद्यपि यौपेिकार्थस्यातिप्रसक्तौ समुदाय शक्तिलक्षणम्ठढ्यभ्युपगमः ; न तु (हि) शचीपतिवाक्पति (पार्वतीपति) श्रीवसवक्ष प्रभृतिषु दात्रहीनधार्यादिशब्देष्वव रूढिरभ्युपगन्तव्या तथापि पुरुषोत्तमशब्दस्य नारायणपर्यायतया पठत् समानप्रवृतिनिमित्तत्वमभ्युपगम्योत्तं द्रष्टव्यम् । चेतन वैलक्षण्यमुक्तमिति । यद्यप्युतमशब्दस्योद्भतार्थवाच्युपसर्गात् साधनक्रियावचनात्। तभप्प्रत्यये निष्पन्नस्य न वैलक्षण्यमत्रमर्थः । अव्युत्पत्तिक्षेऽपि न वैलक्षण्यमर्थः: वैलक्षण्यमात्रेणोत्तमशब्दप्रयोगाभावात् । अत एव, ' स्वेरवैलक्षण्यं तृणादेरप्यस्ति इति ग्रन्थोऽपि न युक्तः - तथापि ' अक्षरादपि चोत्तम ?' इति प्रमाणानुसारेण पञ्चमीसमासस्य वा, * सप्तमी ? इति योगविभागात् सप्तमीसमासस्य वा आश्रय मीयतया, “यतश्च निर्धारणम् ', “पञ्चमी विभक्ते ? इति सूत्राभ्यामेव पञ्चमी सप्तम्योबिंधेयत्वेन निर्धारणस्यावश्वान्निर्धारणस्य च वैलक्षण्यापरपर्यायपृथ्करण वाचित्वाद्वैलक्षण्यमर्थ इत्येतदभिपेत्यैतदुक्तमिति द्रष्टव्यम्। प्रतिपादनोपयोगित येति । पुरुषोत्तमस्य निर्दोषत्वकल्4गुणत्वाश्रयतया निरतिशयवृहत्त्वरूपप्रवृति निमितं संभवतीति प्रतिपादनार्थमित्यर्थः । न तु प्रवृत्तिनिमित्ततयेति । ततश्च ब्रह्मशब्दस्य बृहत्त्वव्यतिरिक्तं स्वभावतो निरस्तदोक्षत्वमपि प्रवृत्तिनिमित्तान्तरमिति भ्रमितव्यमिति भावः । अर्थसामथ्र्यमाह - मुमुक्षोरशेषदोषेति । वाङ्नसा गोचरतयानवधिकत्वमुक्तमिति । ननु ब्रह्मगुणानां सर्वातिशयितया अतिशयस्य सर्वावधिकत्वेन कथमनवधिकत्वम् ? इन्द्राद्यानन्दतिशयो हि मनुष्यानन्दावधिकः । ब्रह्मानन्दतिशयो हि मनुष्यादिप्रजापत्यन्तसर्वानन्दावधिक । अत एव सर्वेषामव धित्वात् सर्वेभ्योऽतिशयित इत्यवध्यर्थपञ्चमीति चेत् - न; अवधिशब्दस्येयतार्थः