पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्त्ववृणत्वे अपि तत्रैवान्तर्गते इत्यत्रैव तत्पश्रोत् । यद्रा. 'गुtो । मित्यस्य न गुणगतवृत्वमित्यर्थः, किं तु बृहद्गुष्कवकृनः स्वरूपनिष्ठ एव माहात्म्यविशेषो ज्यायस्त्वयः । अतः सर्वो ज्यायस्त्वं बृहत्वम् । तदव नप्त शब्दप्रवृत्तिनिमितमिति भावः । शब्दशकेरसंकोचम्येति । ननु द्वयोरपि प्रवृति निमित्तत्वाभ्युपगम एव ऋक्षशब्दशक्तेः संकोचः, गुमतो बृहत्त्वस्य ब्रह्मगुणादिन्या वर्तकत्वादिति चेत् न । न ह्यत्र न्य शब्दशक्तेरित्यस्य ब्रह्मशब्दशक्तेरित्यर्थः । अपि तु “ बृहन्तो ह्यस्मिन् गुणा ! इति ब्रह्मभ्रब्दप्रवृत्तिनिमित्तप्रतिपादक्वाक्यगत गुणशब्दशक्तेरित्यर्थः । यद्वा ब्रह्मवत् प्रवृत्तिनिमित्तस्यापि शक्यत्वात् तत्र बृहत्त्व विशेषरूपप्रवृत्तिनिमित्तस्यैव शक्यत्वमित्युक्तैः संकोचप्रसङ्ग इत्यर्थः । न च द्वयोरपि शक्यत्वे शक्यव्यक्तिसंकोचप्रसङ्गः, प्रयोगाभावेन व्यक्तिसंकोचस्य प्रागेव सिद्भावेनै तदधीनत्वाभावात् । तात् ब्रह्मण इति । ननु तवादित्यस्य सर्वेश्वरादित्यर्थो वक्तु मुचित , 'ब्रह्मशब्दस्तत्रैव भुरुवृत्तः । इति पूर्ववाक्ये तत्रैवेतेि तच्छब्देन सर्वेश्वस्यैव निर्दिष्टत्वात् । तत्र ब्रह्मणः राम आसक्तपतिषेधापतेः । न हि ब्रक्षा शब्दस्याह्मणेि मुख्यवृत्तत्वं प्रसक्तम्, येन तन्निषेधः सफलः स्यादिति चेत् उच्यते . तस्मादित्यस्य ब्रह्म इति नर्थकथनम्, अपि तु शेरपूरणम् । अयमभि प्रायः - स्वरूपेण गुणैश्चानवधिकातिशयशालिनः सर्वेश्वरस्य ब्रह्मत्वं सिद्धम् । इतः परं तस्मादपि त्रह्मणोऽयोऽपि ब्रह्मशब्दमुस्यर्थ इति स्वीकारे अनेकार्थत्वं स्वादिति । केचित्। - ब्रह्मणः निश्वधिकबृहत्क्शालिन इत्यर्थः । पूर्ववाक्ये तत्रैव । इत्यत्र तच्छब्देनापि निगतिशयवृहत्त्वशाल्येव परामृश्यते; न तु सर्वेश्वरः । तथै “तद्गुणलेशयोगात्' इत्युक्तरत्रापि बृहत्त्वगुणलेशयोनादित्येवार्थ इत्याहुः । अस्मिन् पक्षे, “ स च सर्वेश्वर एव । अतो ब्रह्मशब्दस्तत्रैव मुख्यवृतः । इत्ययमंशो व्यर्थः । नन्वितस्त्र प्रयोगस्यौपचारिकत्वे स प्रयोगः सार्वत्रिकः किं न रादित्याशङ्कया औपचारिकस्यापर्यनुयेोज्यत्वान्न सार्वत्रिक : इत्याह . औपचारि कस्त्विति । ननु

  • एकदेशेऽपि यो दृष्टः शब्दो जातिनिबन्धनः ।