पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (जिज्ञासाटाब्दार्थचिचार:) ३३ शुभानां गुणानां सर्वेां प्रवृत्तिनिमित्तत्वमुच्यते, * यचद्विभूतिः सत्वं श्रीभट्टर्जितमेव वा ? इतिवदिति चेत् -न-* भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरु पाधी च वर्तेते वासुदेवे सनातने ।' इत्याद्युपहणानुगुण्यम् ; केवलस्य भगव च्छध्दस्यान्यत्राप्रयोगाचेति भावः । अत एव हि पुरुषोत्तमोऽभिधीयत इत्युक्त मिति । यद्यपि , “तमेवं विद्वान्' इतेि वाक्ये पूर्वत्र, * वेदाहमेतं पुरुधूम् । इति महान् पुरुष एव प्रस्तुत:; न पुरुषोत्तमः - तथापि तयोरेकार्थपर्यवसानमभि प्रेत्योक्तमिति द्रष्टव्यम् । “ अतः सर्वेश्वर ट्टिव जिज्ञासाकर्मभूतं ब्रह्म ” इति वाक्य गतस्याप्तःशब्दस्य तापत्रयातुरजिज्ञास्यत्वरूपार्थसामथ्र्यमात्रे संकोचकल्पने प्रमणा भावादाह - यद्वा अत इति । * अत:’ इति व्याख्येयं पदम् । अव्युत्पन्नो व्युत्पन्नो वा भगवति भुख्य इति । गृहीतसंगतिक इत्यर्थ ; मुख्या वृत्य भगवरतिपादक इत्यर्थः । बुद्धिपूर्विकेति । बुद्धिपूर्विका व्युत्पतिः, मातापित्रादिः भिरझुलिनिर्देशपूर्वकमम्बाततमातुलादिषु यत्र व्युत्पत्तिप्रद्यते, तत्र ; यादृच्छिक व्युत्पतिस्तु, 'घटमानय ' इति वाक्यश्रवणात् प्रयोज्यप्रवृत्तिमुपलभ्य यत्र व्युत्पत्ति गृह्यते, तत्रेति द्रष्टव्यम् । इदं चाधिकरणनिरूपणे स्पष्ट भविष्यति । यूपाहवनी: येत्यत्र कपालशब्दः संपातायातः ; तस्य लैौकिकत्वात् । (जिज्ञासाशब्दार्थविचारः) कर्मणश्च क्रिया शेषभूतेति । ननु प्रधानस्य विधेयत्वे, “ब्रोहीन् प्रेोक्षति' इत्यादौ व्रीह्यादीनां विधेयस्वप्रसङ्गात्, प्रत्युत प्रधानत्वस्यानुवाद्यत्वानुबन्धिनो विधेयत्वविरोधाच, “व्रीहिभिर्यजेत , “ अरुणया क्रीणाति ? इत्यादौ गुणस्यैव त्रेिधेयत्वदर्शनाच कथमेतदिति चेत् - उच्यते - इच्छाया विषयसौन्दर्याधीनत्वेन पुरुषेच्छाधीनकृतिसाध्यत्वाभावेऽपीष्यमाणज्ञानस्येच्छाधीनकृतिसाध्यतया पुरुषतन्त्रत्वेन विधेयत्वसंभवादिति तदर्थात् । केचित्त – 'प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थस्यैव प्राधा न्यम्' इति न्यायस्यौपगवादौ सामान्यतो दृष्टत्वेऽपि 'अवेन जिगमिपति । असिना जिघांसति । इत्यादौ सन्वाच्येच्छापेक्षया प्रकृत्यर्थस्यैब स्वतन्त्रोपस्थितत्य लक्षणस्य शब्दतःप्राधान्यस्य समभिव्याहृतपदार्थान्तरान्वथस्य च दर्शनान्, “ब्रह्म जिज्ञासा ) इत्यत्र प्रकृत्यर्थज्ञानस्यैवाध्याहूनकर्तव्यपदान्वयसंभव इतेि भाष्यभिप्रायं