पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ श्रीरङ्गरामानुजमुनेिविरचिता वर्णयन्ति । प्रमितिरूपं ज्ञानमिति । अत्र, उद्दिश्येति शेषः । तथाचायमन्नान्वयः प्रभितिरुपं ज्ञानमुद्दिश्य आक्षितं तर्करूपं ज्ञानं मनोव्यापारवेिशेवरुपं विधेयमिति परैरुक्तमिति । यद्वा, विधेयं शामित्यर्थः ; उत्तर तर्करुपं ज्ञानमर्थमित्युत्तेः । आर्थिके च विचारेऽध्याहृतकर्तव्यत्वान्वयः । * श्रौतस्तु मुमुक्षानन्तरं ब्रह्मज्ञानेच्छा भवितुं युतेत्येष एव ) इत कल्परूतेः । प्रागुक्तपक्षः साधीयानिति । प्रकृतिप्रत्ययार्थाक्षिप्तस्य विधेयत्वापेक्षया प्रकृत्यर्थविधेयत्वस्य युक्तत्वादिति भावः । (यादवप्रकाशीयसूखार्थनिरासः) प्रधानादिनिरासनिरपेक्षत्वादिति । प्रधानादिनिरासमुखेन प्रधानादजिज्ञा स्यत्वनिरासनिरपेक्षत्वादित्यर्थः । ततश्च विचारानपेक्षितं प्रधानादिनिरासमुखेन जिज्ञा स्यत्वनिरसनं सूत्रकृतो विफलमिति भावः । (वृत्तिकारोक्तवर्णनम्)) भाष्ये- घृत्तात् कर्मज्ञानादनन्तरमिति । अनन्तरशब्दस्य पश्चाच्छब्द पर्यायतया दिक्शब्द्रत्वमङ्गीकृय पञ्चमीनिर्देश इति द्रष्टव्यम् । तद्विपर्ययं शास्त्र शारीरकमित्युच्यत इति । शारीरं कायतीति शारीरकम् । कै शब्दे । “अतोऽ नु:स कः ?' इति के रूपम् । भीमांसाया एकप्रबन्धत्वमिति । यद्येवं वेदोष काररुपैकप्रयोजनसमर्थत्वेनार्थक्यात् व्याकरणज्योतिषादीनां तत्प्रयोजने निष्पाद्ये परस्पराकङ्काया अपि सत्वादेकाङ्गत्वप्रसङ्गः । न च तेषामङ्गत्वेनैक्यमिष्टमिति वाच्यम्- तहींहापि मीमांसात्वेनैक्यं स्यांद्, न तु शास्रक्वमिति चेत्-न; तथा सतीदृशप्रतिबन्द्या पूर्वोतरषट्कयोरपि शास्रमेदप्रसङ्गात् । न च तत्र विषयप्रयोज नाधिकारिणामेकस्वात् , । अथातो धर्मजिज्ञासा ! इति प्रतिज्ञायाः साधारण्याचैकत्व िित वाच्यम् - अत्रापि वेदार्थरूपविषयस्य, तज्ज्ञानरूपप्रयोजनस्य, तत्कामस्य चाधि कारिण' एकत्वात् । विचारद्वयानुगतसाधारणज्ञिाया उपपादयिष्यमाणत्वाच । ननु

  • अथातो ब्रह्मजिज्ञासा ) इति साधारणप्रांतज्ञेत्ययुक्तम् ; तथा सति अथशब्दस्य

कर्मविचारानन्तर्यार्थकत्वं न स्यादिति 'वृद्धिमिच्छतो मूलहान्यापत्तिः ? इति न्याया पातात् । न हि कर्मविचारानन्तर्ये विंशतिलक्षण्या मीमांसायाः संभवति । अपि तु