पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचेिता समन्वयार्थमुपक्रमादीन्येव ज्ञातव्यानि, न श्रुतिलिङ्गादीनीति चेत् -उपक्रमोन्मेषार्थ श्रतिलिङ्गादीनमपेक्ष्यत्वान् । न हि ब्रह्माभिधानश्रुत्यादिक्रमनुपलभ्य 'उपक्रमो ब्राविधयः' इति निश्चेतुं शक्यम् । न चैनावता श्रुतिलिङ्गादिकमेव समन्वयोप योगि, नोपक्रमादेिकमितेि वतुं शयन् ! श्रुत्यादिष्वपि प्रकरणस्योपक्रमादितात्पर्य लिङ्गांधीनात्मज्ञानत्वात् । साकाङ्कमधानबचनं हेि प्रकरणम् । प्राधान्यनिर्णयश्च तात्पर्यलिङ्गावसेयः । किं च येषु वाक्येषु ब्राब्रह्मसमावेशः, तत्र ब्रह्मलिङ्गबलवत्वस्य तात्पर्यलिङ्गोपक्रभाद्यबसेयत्वात् श्रतिलिङ्गादिकमुपक्रमादिकं चापेक्षितम् । न चोपक्रमा दीनां श्रुतिलिङ्गादीनां चान्योन्याश्रय । उपक्रमादीनां स्वरूपलाभार्थ श्रतिलिङ्गाद्य पेक्षणम्, बलाबलावधारणार्थनुक्रमाद्यपेक्षणमिति विषयभेदेन परस्परापेक्षाया अदोष त्वात् । तस्मात् श्रुतिलिङ्गादिकमुपजीव्यमेवेति तदर्थे तृतीयाध्थायापेक्षाया अपि सत्त्वात् द्वितीयाध्यायात्पूर्वमेिति शायातत्वरिहारस्य चानुत्थानमेव । ननु श्रुत्यादीनामुक्तरीत्येोपजीव्यत्वेऽपि न तत्परिज्ञानार्थे पूर्वतन्त्रापेक्ष बन्धात् ”, “प्रकरणात ) इत्यादिसूत्रैः श्रुत्यादिस्वरुपावगमस्य , *श्रुत्यादिबलीय स्वाञ्च न बाधः ? इत्यादिसूत्रे श्रुत्यादीनां पूबेबलीयस्त्वावामस्य च संभवात् । न हेि तल श्रुत्यादीनां लक्षणभुक्तमस्ति । कविद्वाक्यैक्थमात्रस्थ लक्षणमुक्तम् - “ अयै कृत्वादेकं वाक्यं साकाङ्के चेद्विभागे स्यात् ! इति । यानि तु तद्याख्यातृभिरुक्तानि लक्षणानेि, तनेि नोपयुज्यन्ते । तथा हेि अ “निरपेक्षेो वः श्रुति ' इति श्रुतिलक्षणमुक्तम् । तत् सर्धस्राप्यसिद्धम् शक्तिस्मरणादिसापेक्षत्वात् । पदान्तरसमभिव्याहारनिरपेक्षत्वं विवक्षितमिति चेत् - न धूमबति पर्वते प्रयुक्तस्य * सः' इति पदस्यानुमानव्यवधानसापेक्षत्वेऽपि पदान्तर समभिव्याहारनिरपेक्षत्वेन लिङ्गसमर्पकस्यापि शब्दंथ लिङ्गिनि श्रुतित्वप्रसङ्गात् ।

  • शब्दादेव प्रभितः ?' इत्यधिकरणे विषयवाक्ये, “ अङ्गुष्ठमात्रः पुरुषः ?' इत्यत्र

ईशानश्रुतेरङ्गुष्ठप्रमितः परमात्मेति बोधने अङ्गुष्ठमात्रपदसमभिव्याहारसापेक्षत्वेन श्रुतित्वाभावप्रसङ्गाच । ननु परमात्मवाचिन . ईशानशब्दस्याङ्गष्टमात्रपदसामानाधि करण्यात वस्तुतोऽङ्गुष्ठमात्रममितपरत्वेन पर्यवस्यतो धर्ममालज्ञापने नैरपेक्ष्यमस्ति