पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भावप्रकाशिका (अध्ययनविधेनिरूपणम् ) ४१ द्वाराऽध्ययनशेषत्वात् कालस्येति । अष्टमवङ्गकोपनयनङ्गक्रस्याध्ययनस्य प्राथभ्यं सिध्यतीति भावः । अकत्रभिप्रायमूत्रविहितत्वाचेति । आत्मनेपदभ्येति शेषः । अकर्लभिप्रायसूत्रम्, “ संमानन - ) इति सूलम् । अध्ययनङ्गविधिरिति । ननु उपनयनस्य ष्टद्वारसंभवेऽष्टकल्पनाया अन्याय्यत्वादध्ययनं गुरूवारणानूचारणमेव, न स्वतन्त्रमित्यध्यापयितृपूर्वकत्वमाक्षेपसिद्धमिति, अध्यापयितृपूर्वकत्वसिद्धार्थमध्या यितृपूर्वकस्वरूपमध्यथनाङ्गं नानेन वाक्येन विधेयमस्तीति कथमध्ययनाङ्गििधरिति चेत्- न; * अष्टवर्षे ब्राह्मणमुपनयीत ; तमध्यापयेत् ?' इत्यत्राध्यापनस्य रागप्राप्त त्वत्, “ याजयेत् ।) इत्यत्र यजनस्येवाध्ययनस्यैवानेन विधिना विधाने उपनयनस्य तत्समभिव्याहारात्तदङ्गत्वं सिध्येत् । तदभावे तु * उपनयीत ? इत्यनेनाध्ययनाङ्ग तयोपनयनं विधीयत इत्यस्यापरिज्ञानाददृष्टार्थमुपनयनं विधीयत इति स्यात् । ततश्च स्वतन्त्रमप्यध्ययनं प्राप्नुयात् । ततश्च * अध्यापयेत् ? इत्येतदपेक्षितमिति भावः । यद्वा “ऐन्द्रवायवं गृह्णाति ? इतिवाक्याक्षेपलभ्यगविधाथकम्य, “ सोमेन यजेत') इत्यस्य विधित्ववन् उपनयनविध्याक्षेपलभ्याध्यापयितृपूर्वकत्वविधायकस्य “अध्यापयेत्’ इत्यस्य विधित्वसंभबादिति भावः । यद्यपि * अध्यापील !’ इत्येव मीमांसकग्रन्थेषु लिख्यते, अत्र तु * अध्यापयेत् ?' इति श्रुरित्यते – तधाधेि “बुधयुधन् शजनेड् ! इति सूत्रानुकूलत्वेनास्यैत्र पाठस्य सामीचीन्यम् । क्त्याश्रुत्योपनयन स्येति । “ वाजपेयेनेष्टा बृहस्पतिसवेन यजेन ! इतिवत् ऋत्वlश्रुश्या कर्तक्यावगमात् तेन च प्रयोगैक्यावगमादङ्गाङ्गिभावः सिध्यतीति भाव । अन्तरङ्गत्वं हि प्रत्यक्ष श्रुतिसिद्धमिति । उपनयनसंस्कारे माणवकगतत्वस्य प्रत्यक्षद्वितीयासिद्धत्वादध्ययनस्य तन्निष्ठत्वाञ्च तत्संस्कार्यनिष्ठत्वमन्तरङ्गवं प्रत्यक्षश्रुििसद्धमिति भावः । नाध्याप नाङ्गत्वं युक्तमिति । अध्यापनङ्गत्वे क्रियाफलस्य कर्तृगतत्वात् , “स्वरिततिः '; इत्येवात्मनेपदं सिद्धमितीदं व्यर्थ स्यादिति भाव । तदवधारणनिषेधार्थमिति । कर्तर्येवेति नियमेनाकर्तृगामिनि फले आत्मनेपदाप्राप्तौ तन्निवृति; क्रियते । आत्मने पदं प्राप्यत इत्यर्थः । ऋत्विजो वृणीत इत्यत्रेति । अत्र केनचित् । - वृणीते इति रूपं * वृङ् संभतैौ ” इत्यत एव ; नान्यस्मात्, नितः श्राविकरणपाठा