पृष्ठम्:भावप्रकाशिका-भागः १ 01.pdf/७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीरङ्गरामानुजमुनिविरचिता थार्थत्यागः सिद्ध इति भावः । अर्थावबोधनस्य समयोजनकत्वदर्शनार्थमाह - अनु ष्टानौपयिकेति । चशब्देन समुचीयत इति । यद्यपीदं पक्षद्वयेऽपि समानम् तथापि पूर्वपक्षे अपिविरोधसूचक: ; द्वितीयपक्षे तु जपादेः स्वरूपस्य च समुचयपर इति विवेक । मन्त्राणां स्वाध्यायान्तर्गतानां पृथङ् निर्देशः किं निबन्धन इत्या शङ्कयाह - भन्त्रवदिति पृथङ्क निर्देश इति । उपकारकमन्त्रवत्वप्रतिपादनत्यू प्रकृतेऽत्यन्तानुपयोगात् चतिप्रत्ययान्तत्वमाश्रित्याह – यद्वा यथा बालस्येति । सनिथमकोचारणमिति । यद्यपि नियमोऽङ्गविधायकवाक्यान्तरप्राप्यः, नाध्ययन शरीरान्तःपाती, तथाप्यर्थज्ञानस्य तच्छरीरानन्तःपातित्वे तात्पर्यम् । अपि तु स्वशाखामात्रवाचीति । अध्यायशब्दो वेदपरः, स्वशब्दः पितृपितामहपरंपरागत स्वीवत्वाची । न च, * स्वाध्यायशब्दवाच्यवेदाख्याक्षरराशेः' इति भाष्येण विरोध इति वाच्यम्-तस्यापि 'स्ववेदास्याक्षरराशेः' इत्यत्र तात्पर्यात् । न च सिद्धान्ते स्वाध्यायस्याध्ययनोद्देश्यतया उद्देश्यगतविशेषणस्य ग्रहेकवबदविवक्षितत्वात् स्वीयास्सीय साधारण्येनाध्ययनं प्राप्तोतीति वाच्यम् - वेदानामानन्त्येन सर्वाध्ययनस्याशक्यत्वेन संको चेऽपेक्षिते स्वीयत्वस्योद्देश्यगतस्य विवक्षितत्वोपपतेः । मात्रचेति । ननु 'क्षीरमात्रं पिब ? इत्यादावुत्तरपदत्वनियतं मात्रपदं प्रातिपदिकम् । न तु, “प्रमाणे द्वयसच दन्नध्मात्रचः' इ:ि विहितो मात्रच्प्रत्ययः, तस्य प्रमाणार्थ एव विधानादिति चेत् न । 'ॐ रुमालम्' इत्यादावपि प्रमाणार्थप्रत्यय इतरव्यवच्छेदप्रतीतेर्गत्रच्प्रत्यय व्यतिरेकेणोत्तरपदत्वनियतप्रातिपदिकाभ्युपगमे प्रमाणाभावादित्यत्र तात्पर्यात् । यथा अमीनादधीतेति वाक्यमिति । एतच, “तत्प्रकृयथै यथान्येऽनारभ्यवाद । (३-६-१४) इति तातीयाधिकरणे स्थितम् । तत्र हि, आधानविधेः पूर्णतादिवत् क्रतु पर्यन्तत्वं पूर्वपक्षीकृत्य अलौकिकस्याहवनीयाद्यझेरेव फलाकाङ्काशामकत्वसंभवात् तन्मान्न विश्र: एवधानविधिः, न ऋतुपर्यन्त इति स्थापितम् । आधानमात्रपरमिति । अििसद्धचर्थाधानमात्र [विधि] परमित्यर्थः । ग्रहणशेषतयाविनियुक्तस्येति । ननु सिद्धान्ते न स्वाध्यायस्य ग्रहणशेषतया विनियोगः, स्वाध्यायस्य शेषित्वावगमादिति चेत् -मैवम् । ग्रहणशेषतया अविनियुक्तम्येतिं छेदः । ग्रहणशब्दश्चार्थग्रहणपर अर्थज्ञानशेषतया अविनियुक्तस्य स्वाध्यायस्यार्थपरत्वे प्रमाणाभावादित्यर्थः । अयं